पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/११८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वैखानसमृह्यसूत्र तात्पर्यचिन्तामणौ मद्द्रव्यं हव्यकव्यार्थे दानाभ्यागतपूजने । मुख्यमेवास्तु भवतां सदा मत्कर्म कुर्वताम् ॥ किमेभिर्बहुभिर्वाक्यैरन्यते कथयाम्यहम् । मद्रत्यक्षेत्रविम्बानामालयानां तथाऽऽपदि ॥ विक्रीणनादिकार्येषु नास्ति दोपो मदाज्ञया । तस्माद्भवानभिमतस्सर्वं कर्म सदा कुरु । मदीयधनभोगेन मक्रियालोपस्तव । मच्छरीरतया सत्यमचारो न विद्यते । इति भगवद्वचनोदाहरणेन भगवद्द्रव्योपमंौगादिषु दोपाभावः प्रनिपादितः । अत्र ' अहं भक्तपगध.नो ह्मस्वतन्त्र इव द्वज । इत्यादिवचनानुसारे णार्चकपराधीनतां दर्शयितुं, भगवतीििवषयंकृतानां वैश्वानसानां तद्द्रव्योपभोगा दिषु दोषगन्धेो नास्तति प्रतिपादनावर 'मद्रयं क्षेत्रबिम्बा' दीत्यादिना कैमुतिकन्यायमभिप्रेत्य भगवद्विग्रहविक्र कृतेऽपि दोो नास्तीत्युच्यते । तावता न तदभिप्रेतम् । नन्वेवमपि देवद्रव्योपभोगदोपस्सामान्यतः मुम्यामुख्याधिकारिपु सर्वेष्वा पद्यते एव इति चेत् न । 'ये भक्षयन्ति मांसानि सत्त्वानां जीविनैषिणाम् । भक्ष्यन्ते तेऽपि तैस्सर्वेरिति ब्रह्माऽब्रवीत्स्वयम् । मां स भक्षयिताऽमुत्र यस्य मांसमिहाभयहम् । एतन्मांसस्य मांसत्वं प्रवेदन्ति मनीषिण ।। न हि मांसं तृणात्कष्टादुपलद्वापि जायते । हत्वा जन्तुं भवेन्मांसं तस्मत्तत् परिवर्जयेत् ।। हन्ता चैवानुमन्ता च विशस्ता क्रयविक्रयी । संस्कर्ता चोपकर्ता च खादकश्चाष्ट घातुकाः ।। १४