पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/११९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशविधहेतुनिरूपणम् धनेन क्रायको हन्ति खादकश्चोपभोगतः । घातुको वधबन्धाभ्यमित्येष त्रिविधो वधः । स्वमांसं परमांसेन यो वर्धयितुमिच्छति । नारदः प्राह धर्मात्मा नरके स विपच्यते । इत्यादिवचनैः मांसभक्षणेन नरकपतनमरणात् भगवत्रीत्यर्थ क्रियमाणेषु यज्ञेष्विप मांसभक्षणसत्त्वात् याज्ञिकानामपि नरकपतनं सम्भवतीति यागस्यापि त्यागप्रसङ्गात् । तस्माच्छास्त्र प्रमाणं ते कार्याकार्यव्यवस्थितौ । ज्ञात्वा शास्त्रविधानेोक्तं कर्म कर्तुमिहार्हसेि ।। इति भगवद्वचनात् शास्त्रोक्तानां कर्मणां दोषे नास् ति चेत् । मद्द्रव्योपभोगादौ दोषो नास्तीति ? भगवता प्रतिपादनत्वात् प्रकृतेऽपि दोषो नास्त्येव । 'वचनात् प्रवृत्तिर्वचनान्निवृत्ति ' ििन खलु शिष्टोक्तिः । एवं कुत्रचिद्धर्मोऽधर्मः अधर्मश्च धमों भवति । यथा -- उत्तेऽनृते भवकिञ्चित्प्राणिनां प्राणरक्षणम् । अनृतं नत्र मत्यं स्यात् सत्यमत्रानृतं भवेत्' ।। कामिनीषु विवाहेषु गवां पीडासु बाधने । ब्राह्मणाभ्यवपत्तौ च शपथे नाति पातकम् ।। इति 'द्राह्मणश्चाब्राह्मणश्च प्रश्मेयातां ब्राह्मणायाधिबूयात् यड्राह्मणायाध्या त्मनेऽध्याह यद्राह्मणं पराहाऽऽत्मानं पराह नस्माद्राह्मणो न परोच्यः' इति श्रुतिश्च । श्रौतसूत्रे च– 'सर्व एवमभिवादयन्नि नाभिवादयति न जुहोत्यन्यत्र सोमाङ्गेभ्यः ? इत्यादि प्रतिपाद्यते । सर्वस्वहरणे भार्यावेश्ययं: () प्राणसंशये । गोद्विजार्थे विवादे च शपथे नाम्ति पातकम् ? ॥ इत्यस्मृितिश्च । एयं च शास्त्रोक्तप्रकारेण भगवदर्चनं कुर्वतां तद्द्रव्योपभोगे न दोषः ।