पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/१२१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नारदीये – तत्रैव-- स्रायन्ते खलु नात्यन्तमन्वधर्मास्वनुष्ठिताः । अपि मत्कर्म विगुणं त्रायते महतो भयात् ।। मेरुमन्दरमात्रोऽपि राशिः क्षपस्य कर्मणः । केशवं वैद्यमासाद्य दुव्र्याधिरिव नश्यति ॥ निधिस्थानं खनन्द्वेषात् मृदर्थं वाऽप्नुषान्निधिम्। अज्ञः कामाच दोषाघ स्मृत्वैवं मोक्षभाक्तथा । द्वेषिणा वाऽप्रयत्नेन क्षिप्तोऽमिः कक्षमादहेत्। कथमभ्यर्चितो विष्णुः न दहेत् सर्वकिल्विषम् ॥ यथाऽज्ञो वज्रकायस्यात् स्पर्धन्नपि सुधां पेिक्न् । एवं विरुद्धभावोऽपि मुच्यत्येव हरिं स्मरन्' ॥ इति । 'कृताऽपि दम्भहास्याथैर्यंसेवा तारयेज्जनान् । विफला नान्यकर्मेव कृपालुः कोऽन्वतः परम् ॥ हास्यानादरमायाभिरपि भक्तिः कृता त्वयि । नृणां ददातीन्द्रपदं सात्विकानां किमुच्यते । वस्तुस्वभाव एवैष यन्मोक्षाय हरिस्मृतिः । पूषेव ध्वान्तनाशाय शीतशान्त्यै यथाऽनलः ॥ सैषा हरिस्मृतिर्दैत्यं क्रोधादपि कृता सती । आनयेत्सद्वतिं वियं सानुगं किमु वण्यते ॥ यथाऽमृतथ यतता सुराणामब्धमन्थन् । पारिजातादिकान्यासन् फलान्यप्रार्थितान्यपि ॥ एवं मोक्षेकचित्तानां यततामीशसंस्मृतौ । भवन्ति सिद्धयो दिव्याः पुण्य पुण्यानुबन्धि यत्' । इत्यादि । 'सुरातिथ्यर्चनकृते गुरुभृत्यर्थमेव च । सर्वतः प्रतिगृह्णीयात् न तु दुष्येत्स्वयं ततः ॥