पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/१२३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तत्रापश्यद्द्वजवरं शान्तं तत्त्वार्थकोविदम् । परिचर्यापरं विष्णोरुद तपसां निधिम् ॥ एकान्तिन दयालुञ्च निस्पृहं ध्यानलोलुपम् । दृष्टा तं लुब्धको मेने स्वकार्यस्यान्तरायिनम् ॥ देवस्य द्रव्यजातन्तु समादातुमना निशि' । इत्यादिना पृथगालयार्चकसद्भावादिकं उक्ता स्वकार्यान्तरायभूतार्चकहिंसायां प्रवृत्तस्य तस्य मरणमपि प्रतिपाद्य उदङ्कः पतितं प्रेक्ष्य लुब्धकन्तु दयापरः । विष्णुपादोदकेनैनमभ्यषिञ्चन्महामुनिः । हरिपादोदकस्पशल्लुिब्धको वीतकल्मषः । दिव्यं विमानमारुह्य मुनिमेनमथाब्रवीत्' ।। इति भगवत्पादोदकमाहात्म्यं च प्रतिपादितम् । तत्रैव – यज्ञध्वजवीतिहोत्रसंवादे 'स कदाचितु कामान्धो रन्तुकामः परस्त्रियम् । शून्यं पूजादिभिर्विष्णोर्मेन्दिरं प्राप्तवान् निशि ॥ तत्र कामोपभोगार्थं शयितुं तेन कामिना । स्क्वस्रमान्तो ब्रह्मन्! कृतं तद्देशमार्जनम् ॥ यावन्तः पांसुकणिकाः तेन सम्मार्जितास्तदा । तावज्जन्मकृतं पापं तदैव क्षयमागतम् ॥ प्रदीपः स्थापितस्तन्न सुरतार्थ द्विजोत्तम!। तेनापि तस्य दुष्कर्म निश्शेपं क्षयमागतम् ॥ अवशेनापि यत्कर्म कृत्वेमां सिद्धिमागतः । भक्तिमद्भिः प्रशान्तैश्ध किं पुनस्सम्यगर्चनात् ॥