पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/१२४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वैखानसन्हास्त्र तात्पर्यचिन्तामणौ तस्माच्छूणुत विप्रेन्द्राः ! देवो नारायणोऽव्ययः । ज्ञानतोऽज्ञानतो वापि पूजकानां विमुक्तिदः ॥ इति । तथा तत्रैव – इन्द्रसुधर्मसंवादे “अहमासं पुरा शक ! गृध्रः पापावशेषतः । स्थितश्च भूमिभागे वै अमेध्याभिषभोजनः । एकदाऽहं विप्णुगृहे प्राकारे संस्थितः प्रभोः । पतितो व्याधशखेण सायं विष्णुगृहं गते ॥ मयि कण्ठगतप्राणे कश्चित् श्वा मांसलोलुपः । जग्राह मां स्क्वतेण श्वभिरन्यैरभिद्रत । गतः प्रदक्षिणाकारं विष्णोस्तन्मन्दिरं प्रभोः । तेनैव तुष्टिमापन्नः अन्तरात्मा जगन्मयः । मम चापि शुनश्चापि दत्तवान् परमं पदम् । प्रदक्षिणाकारतया गतस्य सदृशं फलम् ।। सम्प्राप्त तु मया शक्र! किं पुनस्सम्यगर्चनात् । येऽर्चयन्ति सदा भक्त्या नारायणमनामयम् । तानर्चयन्ति विबुधा ब्रह्माद्या देवतागणाः ।।' इति एवं आश्वमेधिके - 'लोके त्रीण्यपवित्राणि पञ्चामेध्यानि भारत । श्वा च शूद्रश्वपाकश्च त्र्यपवित्राणि पाण्डव । देक्लः कुक्कुटो यूपः उदक्या वृषलीपतिः । पञ्चामेध्यानि ? ॥ इति श्रीवैखानसे– 'सूतादिप्रतिलोमाश्च पाषण्डाः पतितास्तथा । नातिका भिन्नमर्यादास्तथा वेदविदूषकाः ।। पापरोगयुताश्चैव तथैव गुरुनिन्दकाः । अर्चनं देवदेवस्य हविर्दानञ्च वीक्षितुम् ।