पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/१२७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

किख - यथा वैखानसानामुत्पत्त्यादिकं श्रुतिस्मृतिपुराणादिषु विशेषेण प्रतिपादितं तथा इतरेषां विशेषेण प्रतिपादितछेत् तदा वैखानससाभ्यमितरेषां स्यात् । तथा न दृश्यते हि । अथ वस्तुतो देवलका निरूप्यन्ते । वैखानसे– ' अवैखानसविप्रो यः पूजयेदालये हरिम् । स वै देवलको नाम हव्यकव्यबहिष्कृतः ॥ वैखानसकुले जातः पाञ्चरात्रेण दीक्षितः । न दीक्षितो न सञ्जातो () लोभान्मोहान्मदर्चनम् । कुर्याच्चेतु विशेषेण भवेद्देवलकस्तु सः । पाञ्चरात्रे 'कर्मदेवलकाः केचित् कल्पदेवलकाः परे । संकर्षणसंहितायाम् शुद्धदेवलकाश्चान्ये त्रिधा देवलकाः स्मृताः ।। अर्थार्थी कालनिर्देशी यो देवं पूजयेत्स हि । कर्मदेवलको नाम सर्वकर्मबहिष्कृतः । पाश्चरात्रविधानज्ञो दीक्षाविरहितोऽर्चकः । चतुर्वेदाधिकारोऽपि कल्पदेवलकः स्मृत । आगमोक्तविधानज्ञो भद्रकाल्युपजीवकः । शुद्धदेवलकः प्रोक्तः सर्वकर्मबहिष्कृतः । आषक्तेन विधानेन देवलत्वं न विद्यते । तस्मात् सर्वप्रयलेन वैदिकेनैव पूजयेत् ' ॥ इति शिवशेखरतन्त्रे:- रुद्र अथ देवलकान् वक्ष्ये श्रृणु देवि! समाहिता। कर्मदेक्लकाः केचित् कल्पदेवलकाः परे । शुद्धदेवलकास्त्वन्ये त्रिधा देवलकास्मृताः । अन्यसूोक्तमार्गेण यस्संवत्सरपूजकः ।