पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/१२९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रापके व्युत्पादयितुं शक्यते इति तप्रतीपेषु वेदमार्गप्रतिष्ठापकेषु वैखानसेषु न सर्वात्मना मक्र्तते । तथा च – हारौतः– ‘वैखानसास्तु ये विप्रा हरिपूजनतत्पराः । न ते देवलकाः प्रोक्ता विष्णुपादाब्जसंश्रयात्। ।' इति स्मृत्यर्थसारे – अत्रिः-'वैदिकेनैव विधिना दम्भलोभक्विर्जितः ।

  • पूजयेद्भक्तितो विष्णु स हि देवलको न वै ।' इति

अन्यथा भुयुक्तमार्गेणालयाचैकानामपि देवलकत्वे तादृशालयार्चनप्रति पदकानां श्रुतिस्मृतिपुराणादिवचनानां व्यर्थता स्यात् । ननु-अज्ञानतः कृतमपि भगवदाराधनमपवर्गप्रदश्चत्-विना शास्त्रं अनधि कारिणापि कृतं तत् अपवर्गप्रदं किं न स्यादिति चेत्-न । भगवदाज्ञाभङ्गापतेः । यथोक्तं भगवता- । यश्शास्रविधिमुत्सृज्य वर्तते कामकारतः । न स सिद्धिमवाप्तोति न सुखं न परां गतिम् ' । इति 'श्रतिस्मृती ममैवाज्ञा यस्ताभुर्लय वर्तते । आज्ञाच्छेदी मम द्रोही मद्भक्तोऽपि न वैष्णवः' । इति मम चापि प्रियं विष्णोर्देवदेवस्य शाङ्गिणः । . मानुषो वैदिकाचारं मनसाऽपि न लंघयेत्' । इति अतः अनधिकारिणा कृतं शास्त्रासम्मतमिति तन्त्रोक्तप्रकारेण कृतमपि तत् नाफ्वर्गप्रदम्। ननु – 'ब्राह्मणैः क्षत्रियैः वैश्यैः शूद्वैश्च कृतलक्षणैः । अर्चनीयैश्ध सेव्यश्च पूजनीयश्च माधवः । सात्वतं विधिमास्थाय गीतः सङ्गर्षणेन यः ) । इति शूद्रादीनामपि पाञ्चरात्रोक्तमार्गेणार्चने अधिकारे सिद्धे कथं तान्त्रि कोक्तप्रकारेणाचैनं कुर्वतः ब्राह्मणादेः (अनधिकारिणः) तत् अपवर्गमदं न भक्तीत्युच्यत इति चेदुच्यते ।