पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/१३०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वैखानसवृह्यसूत्र तात्पर्यचिन्तामणी

  • प्रथमं मन्त्रसिद्धान्तं द्वितीयञ्चागमाह्वयम् ।

तृतीयं तन्त्रसिद्धान्तं तन्त्रान्तरमतः परम् ॥ इति चतुर्विधेषु सिद्धान्तेषु

  • एकत्र दीक्षितस्तन्त्रे सिद्धान्ते वा द्विजोत्तम ।

क्रियां न कुर्यादन्यत्र कर्षणदि चतुर्मुख ।। आचार्यकमथाविज्यं पूजाञ्च मधुविद्विषः । मन्त्रे देवे च सिद्धान्ते तदेवास्य हि युज्यते । () इति चतुर्विधतन्त्रेषु एकत्र दीक्षितस्य तन्त्रान्तरे प्रवेशयोग्यताभावस्य प्रतिपादनात् । एकगोत्रसमुत्फलं पञ्चगोत्रं पृथक् पृथक् । इत्यारभ्य 'सूत्रं कात्ययनं शाखा याजुषं शुक्रमेव च । औपगायनशाण्डिल्यौ भारद्वाजोऽथ गौतमः । मौञ्जायनिस्तु चैते पाञ्चरात्राधिकारिणः । इत्यधिकारिभेदस्य विधीयमानत्वात् । 'चतुर्णामपि वर्णानामितरेषाश्च तद्भुवाम् । दीक्षा समैव सर्वेषामाचारस्तन्त्रवत्र्मना । इत्यापस्तम्बादिसूतैः संस्कृतस्य पञ्चरात्रोक्तमार्गेण निषेकदिसंस्कारयेभ्यताभाव कथनात् । तान्त्रिकोक्तप्रकारेण दीक्षितानामेव तन्त्रोक्तार्चनायामधिकारित्व सम्भवात् ।

  • स्क्सू त्र वर्तमाने तु परसूत्रेण वर्तते ।

अप्रमाणमृवं कृत्वा सोऽन्धे तमसेि मैजति ? ॥ स्वकीयधर्ममुत्सृज्य परधर्म य आश्रयेत् । पतितस्स भवेदाशु सद्य एव न संशयः । । स्वसूत्रस्य परित्यागात् परसूत्रसमाश्रयात् । सद्यः पतति वै विप्रो न वेदस्य समाभये ॥ ()