पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/१३१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पुण्ड्रं

'शाखां शिखां तथा पुष्टुं स्मयाचारमेव च । पूर्वैराचरितं कुर्यादन्यथा पतितो भवेत् । 'यस्वशाखां परित्यज्य परशाखासु वर्तते । शाखारण्डस्स विज्ञेयस्सर्वकर्मबहिष्कृतः । । यस्वधर्म परित्यज्य परधर्म निषेवते । पषण्डिनं तमाहुर्दै निकृष्ट श्वपचादपि! ॥ इति । भगवान्:- श्रेयान् स्वधर्मो विगुणः परधर्मात् स्वनुष्ठितात् । स्वधर्मे निधनं श्रेयः परधर्मो भयावहः' । इति व्यासः – “स्वधर्म यस्समुत्सृज्य परधर्म समाश्रयेत्। । अनापदि स विद्वद्भिः पतितः परिकीर्तितः । इत्यादिभिश्ध वचनैः परधर्मानुष्ठातुः पतित्वादिस्मरणाच अन्यसूत्रोक्तप्रकरेण तन्त्रि कोक्तेन मार्गेण वा बाह्मणादिभिरपि अनधिकारिभिः भगवदाराधनं कर्तु न शक्यते । तर्हि 'ब्राझणैः क्षत्रियैवैयैः' इत्यादिभारतवचनस्य का गतििरति चेत्-उच्यते । माधवा:-मुख्यत्वेन अद्वारकभगवद्यजनाधिकारत्वेन िनरूपितैः ब्राह्मणै पूजनीयः । इतैः क्षत्रियैवैश्यैश्चार्चनीयः । शूद्वैः स्त्रीभिश्च यथार्हमिज्यस्सेव्यश्च इति तस्य वचनस्यार्थः । शूद्वैः स्त्रीभिस्तथेतरे । यथार्हमिज्यस्सेव्यश्च नित्यं सर्वेश्वरो हरिः । । इति भारद्वाजवचनात्, 'अध्र्यान्तर्भार्चनं प्रोक्तं हविरन्तश्च पूजन'मित्यर्चनपूजनयो भिन्नार्थकत्वप्रतिपादनात्, सर्वैरेकरीत्या पूजनेऽभिमते एकपदस्यैव पर्याप्तत्वात् इतरयोः पदयोवैयथ्र्यापाताच । अन्यथा शूद्रस्यापि पूजार्चनादिष्वधिकाराङ्गीकारे श्रुतिस्मृतिसूत्रपुराणादिविरोधो भवेत् । शूद्रस्यानधिकारप्रतिपादकानि वचनानि चैतानि । श्रुतिः । ‘तमाच्छूद्रो यज्ञेऽनवक्लप्त । स हि देवता अन्वसृजत तस्माच्छूद्रो बहुपशुयज्ञीयो दैव'