पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/१३२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्मृतिः– “जपस्तपस्तीर्थसेवा प्रव्रज्या मन्त्रसाधनम् । देवताराधनचैव स्वीशूद्रपतिानि षट् ।' इति श्रीभागवते – 'शुश्रूषणं द्विजगवां देवानाञ्चाप्यमायया । तत्र लब्धेन सन्तोषः शूद्रप्रकृतयस्विमाः' । इति 'ब्राह्मणस्य तपो ज्ञानं तपः क्षत्रस्य रक्षणम् । वैश्यस्य तु तपो वार्ता तपश्शूद्रस्य सेवन 'मिति । अन्यत्र- 'यदि शूद्रस्तपः कुर्याद्वेददृष्टेन कर्मना । इह चास्य परिक्लेशः प्रेत्य चास्याऽशुभा गति ।।' इति । किमर्थ शद्रस्य िद्वजशुश्रूषा सर्वदा अभिहितेति चेत्-उच्यते । जन्मान्त रीयकर्मवशात् जननकालेऽपि तमोगुणैरभिभूतस्य तस्य शूद्रस्य तमोनिरसनार्थ द्विजशुश्रूषणं ब्रह्मणा प्रयुक्तम् । आश्वमेधिके – 'उदिते सवितर्यस्य क्रियायुक्तस्य धीमतः । . चतुर्वेदधरस्यापि देहे पड्वृषलाः स्थिताः । क्षत्रिये सप्त विज्ञेया वैश्येत्वष्टौ प्रकीर्तिताः । नियताः पाण्डवश्रेष्ठ शूद्रेऽष्टाविंशतिः खलु ' । इत्यारभ्य 'रागद्वेषौ च मोहश्च पारुप्यञ्च नृशंसता । शाठ्यञ्च दीर्घवैरञ्च अतिमानमनार्जवम् । अनृतश्चापवादश्ध पैशुन्यमतिलोभता । हिंसा स्तेयं मृषावादो वञ्चना रोषलोभते । अबुद्धता च नास्तिक्यं भयमालस्यमेव च । अशोचखाकृतज्ञत्वं दम्भता स्तम्भ एव च । निष्कृतेश्चाप्यविज्ञानं जनने शूद्रमाविशन् । दृष्टा पितामहः शूद्रमभिभूतन्तु तामसैः ॥ द्विजशुश्रूषणं धर्म शूद्राणान्तु प्रयुक्तवान् । नश्यन्ति तामसा भावाः शूद्रस्य द्विजभक्तित ।।' इति