पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/१३३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वशविभहेतुनिरूपणम् अतः तमोगुणाभिभूतस्य शूद्रस्य भगवद्यजनाधिकारो नास्त्येव । नन्वेषां शैौनकाद्यक्तप्रकारेण भगवदाराधनेऽधिकारो भवेदिति चेत् तदसत् । तत्र अधिकारिविशेषप्रतिपादनाभावात्; सामान्येनोक्तत्वेऽपि श्रुतिस्मृति सूत्रपुराणमहाभारतवैखानसपाञ्चरात्रशैवशिल्पज्यौतिषादिषु अधिकारिणां विशिष्य प्रतिपादितवात् सर्वशाखाप्रत्ययन्यायेन सामान्यविशेषन्यायेन मत्प्रकरणाधीतं सर्व मदर्थ 'मिति न्यायेन प्रकरणसाम्येन, उपास्यदेवतैक्यात् गुणोपसंहारयायेन च शैौनकादिभिरुक्ताचैनाविधेरपि अत्रैव पर्यवसानं युक्तम् । इतरसूत्रिणां कथमिति चेत्-स्वाश्रमधर्माचरणेनैव भगवदाराधनफलं सिद्धयति । यथोच्यते स्मृतिषु – 'बहल्पं वा स्वगृह्योतै यस्य कर्म प्रचोदितम् । तस्य तावति शास्त्रार्थे कृते सर्वे कृतं भवेत् ॥ इति श्रीविष्णुपुराणे - 'वर्णाश्रमाचारवता पुरुषेण परः पुमान् । विष्णुराराध्यते पन्था नान्यस्ततोषकारकः ? ॥ इति तथाऽन्यत्र- वर्णाश्रमेषु ये धर्माः शास्त्रोक्ता मुनिसत्तम। तेषु तिष्ठन्नरो विष्णुमाराधयति नान्यथा ॥ ये यजन्ति पितृन् देवान् ब्राह्मणांश्च हुताशनम् । सर्वभूतान्तरात्मानं विष्णुमेव यजन्ति ते ॥ इति पुराणान्तरे– “ अमिकायें जपं स्नानं तपस्वाध्यायमेव च । तमेवोद्दिश्य देवेशं कुरु नित्यमतन्द्रितः ॥ प्रातरुत्थाय विधिवत् स्रात्वा नित्यं समाहितः । यजेत कर्मभिस्तैस्तैः विष्णु देवादिसंज्ञितम् ।।' इति

  • मास्तु शूद्राणामधिकारः, वैखानसेतरब्राह्मणानां क्षत्रियाणां वैश्यानां च केन

मार्गेण भगवदाराधनमिति पृच्छति इतरसूत्रिणामित्यादिना । प्रश्नस्यास्य पूर्वमेव समाधानमुक्तम् । अधुना प्रकारान्तरेण समाधानमाह-स्वाश्रमेत्यादिना ।