पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/१३५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथास्य वैखानससूत्रस्य सर्वसूत्राणामादिवं निरूप्यते । तथा िह ब्रह्मकैवत- 'यथा मुनीनां विखना आदिभूत उदाहृतः । सूत्राणां तत्प्रणीतन्तु तथा श्रेष्ठतमं स्मृतम्' । इति । पुरातन्त्र भृगु - ‘वेदानां व्यासनादर्वाक् प्राष्ट्र मिलितन्तु यत् । तन्तु वैखानसीं शाखामिति वेदविदो विदुः' । इत्यारभ्य वैष्णवं सूत्रमेतद्धि सर्वसिद्धिकरं परम् । आद्यत्वात्सर्वसूत्राणां वैष्णवत्वाच ततु वै । मयाऽनुवर्तितं तद्वत्काश्यपत्रिमरीचिभिः' । इति । स्कान् च – 'वैखानसीं महाशाखां स्वसूत्रे विनियुक्तवान् । पद्मभूः परमो धाता तस्मिन्नाराधनत्रयम् । उक्तवान् निगमार्थानामाचारं प्रविभागश । ॥ इति । सूत्रार्थपर्यालोचनयाऽपि सर्वसूत्रादित्वमस्यावगम्यते। यथा-‘मुखादिन्द्र श्वामिश्रे ! ति भगवन्मुखादमिसृष्टिः श्रूयते, तथा आश्रमेषिके -भगवद्वचनम् । 'प्रथमं मन्मुखात्सृष्टो लोकार्थे पचनः प्रभुः । सृष्टमात्रो जगत्सर्वम्तुमैच्छत्पुरा खलु ॥ ततः प्रशमितस्सोऽयमुपासीनो मया पुरा । सतोपासनात्सोऽयौपासन इति स्मृतः ॥ इति एवं परमपुरुषमुखाज्जातस्यौपासनानेः कुण्डविधानादिकमत्रैव सूत्रे मति पादितम् । किश्च नवग्रहमखे सवितृमण्डलस्य चतुरश्रत्वमुच्यते ‘चतुर' वृत्त । मित्या दिना (सूत्रे)। आदौ चतुरश्रय सतो रविमण्डलस्य कालान्तरे वृत्तत्वकल्पनं प्रमाणैरवगम्यते यथा अथ द्वितीयहेतुनिरूपणम् --