पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/१३६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वैखानसमृह्यसूत्र तात्पर्यचिन्तामणौ विष्णुपुराणे:- 'तेजसश्शमनश्चास्य विश्वकर्मा चकार ह । भ्रमिमारोप्य सूर्यन्तु तस्य तेजोऽवशातनम् । कृतवानष्टमं भागं स व्यशातयदव्ययम् । यत्सूर्याद्वैष्णवं तेजश्शातितं विश्वकर्मणा । जाज्वल्यमानमपतत् तद्भौ मुनिसत्तम । इतेि । एवं च । सूर्यसावर्णिकमन्वन्तरमारभ्य रविमण्डलस्य वृत्ताकारप्रतीतिः । तदनुसारेण बोधायनादिभिः वृत्ताकारत्वं रविममण्डलस्योक्तम् । ततः पूर्व चतुरश्रत्वमेव । तदेवस्मिन् सूत्रे प्रतिपादितम् । एवं 'वानप्रस्थो वैखानशाखसमुदाचारो वैखानस' इति वैखानससूत्र मनुस्मृत्य तृतीयाश्रमधर्मान् शेोधायनः प्रतिपादयति । तथा आवैिश्यसूत्रे 'अथातस्सूत्रगणनां व्याख्यास्यामः । बोधायनमाप खम्बं सत्याषाठं द्राखायणमागस्त्यं शाकल्यमाश्वलायनं शाम्भवीयं कात्यायनमिति नवानि पूर्वसूत्राणि। वैखानसं शौनकीयं भारद्वाजमामिवैश्यं जैमिनीयं * वाधूलं माध्यंदिन हिरण्यकेशीयं कौषीतकमिति नवान्यपरसूत्राणि । एवमष्टादश सूत्राण्यष्टादशसूत्रकाराश्च । एतानि चतुर्वेदमूलनि । पूर्वसूत्राणि शारीराणि सामान्यानिभवन्ति । उत्तरसूत्राणि वैखानसादीनि विष्णुसम्बन्धीनि दैविकानी 'ति वैखानससूत्रस्यादित्वं वैष्णवत्वञ्चोच्यते । अस्य सूत्रस्थाक्क्यिं च *ये वैखानससूत्रेण संस्कृतास्तु द्विजातय' इत्या दिना पूर्वमेव प्रतिपादितम् । अतः सर्वसूक्षाणामादिरिदं सूत्रमिति सिद्धम् । तत सर्वसूत्रोत्तमत्वञ्चा स्योपपद्यते इति निरूपिते द्वितीयो हेतुः । इति द्वितीयहेतुनिरूप म् ।

  • अत्र वाधूलस्थाने

पाठान्तरमुपलभ्यते । माधुर्यमिति हिरण्यकेशीयस्थाने कौण्डिन्यमिति च