पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/१३७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ तृतीयहेतुनिरूपणम् अथास्य श्रीवैखानससूत्रस्य सूत्रान्तरापेक्षया वैलक्षण्यापादकं प्रत्यक्ष श्रुतिमूलकत्वमस्तीति ज्ञापयितुं 'सर्वकर्मसु श्रुतिमार्गानुसारिवा' िदति तृतीयो हेतुर्निरूप्यते । तथाहि शुद्धाचकविौ 'यत्रािचामति तेन ऋचः श्रीणाति इत्यादिश्रुत्यनुसारेण सूत्रे 'ऋग्वेदः प्रीणा' ित्वत्यादिना शुद्धाचमनमुक्तम् । ननु . बोधायनेनाि शुद्धाचमनविधिरुक्त इति चेत् सत्यम्। 'आचमनविधिं व्याख्यास्यामः' इत्यारभ्य गोकर्णबद्धहस्तेन त्रिराचामेत्, प्रथमं यपिबित तेन ऋग्वेदं श्रीणाति यद्भद्वितीयं तेन यजुर्वेदं यत्तृतीयं तेन सामवेदं प्रीणाती' त्याचमनेन ऋग्वेदादीनां प्रीति र्भवतीत्युक्तम् । न तु मन्त्रः । श्रुतिस्मृतिसूत्रविहितस्य सन्ध्योपासनस्य प्रधानभूतमध्यप्रदानादिकमलैव प्रतिपादितम् । 'प्रातस्सूर्यश्चेत्यादिनाऽऽचम्य आपो हिष्ठदिभितिसृभिः प्रेक्ष्य गायत्र्याऽपेऽभिमन्त्र्य आदित्याभिमुखं विक्षिप्य प्रदक्षिणं करोति । इत्यादि । बोधायनेनापि सन्ध्यावन्दनविधिरुक्तः इति चेत् नैवम् । ‘अथातस्सन्यो पासनविधिं व्याख्यास्यामः तीरं गत्वा प्रयतोऽभिषिक्तः प्रयतो वाऽनाभिषिक्तः प्रक्षालितपादपाणिरप आचभ्य सुरभिमत्या अब्लिगाभिर्वारुणीभिः हिरण्यवर्णाभिः पवमानीभिः व्याहृतिभिरन्यैश्च पवित्रैरात्मानं प्रेक्ष्य प्रयतो भवति । अथाप्यु दाहरन्ति । आपोऽवगाहनं शानं विहितं सार्ववर्णिकम् । मन्त्रवत्प्रेक्षणचैव द्विजानामवशिष्यते' । इति सर्वकर्मणाचैवारम्भेषु प्राक् सन्ध्योपासनाकालचैतेनैव पवित्रसमूहेनात्मानं मोक्ष्य प्रयतो भवति । अथाप्युदाहरिन्त । ‘दर्भेष्वासीनो दर्भान् धारयमाणः सोदकपाणिना प्रत्यङ्मुखः साक्लिीं सहस्रकृत्वः आवर्तयेत् । प्राणायामशेो