पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/१३८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशविधहेतुनिरूपणम् ७४ वा शतकृत्व. त्रिभिश्च प्राणायामैः ततो (तान्तो) ब्रह्महृदयेन वारुणीभ्यां रात्रिमुपतिष्ठते ? इत्यादिना मार्जनादिकमुक्तम् । प्रधानभूतमध्यप्रदानादिक मनुक्तम् । ब्रह्मयज्ञः - तलवकारोपनिषदि * तस्या वा एष प्रथम: पाद: ऑ भूस्तत्सवितुर्वरेण्यं ओं भुवः भगों देवस्य धीमहि ओं सुवः धियो यो नः प्रचोदयात् इति पच्छः, ओं भूर्भुवस्तत्सवितुर्वरेण्यं भगों देवस्य धीमहि ओं सुवः धियो यो नः प्रचोदयात् इत्यर्धर्चशः, ओं भूर्भुक्स्सुवस्तत्सवितुर्वरेण्यं भगों देवस्थ धीमहि धियो यो नः प्रचोदयात् इति समस्ताश्च सावित्रीं जप्त्वेति यथोपदिष्टः, तथाऽत्र सूत्रेऽपि उक्तोऽस्ति । आघारादिषु सर्वमपि श्रौतक्त् । अत्र ब्रह्मवरणानन्तरं सोमवरणमप्युक्त मस्ति । * सोमोऽस्माकं ब्राह्मणानां राजा – सोमराजानो ब्राह्मणा ? इति ।

  • विष्णुश्ध ह वै सोमश्च ब्रह्मवाद्यमवदेतां अहं ब्राह्मणानां प्रतिष्ठति विष्णुर

ब्रवीत् अहं प्रतिष्ठति सोमः तै प्रजापतिं प्रक्ष्मैतां सोऽब्रवीत् प्रजापतिः छन्दांसि विष्णुमधियच्छन्ति नक्षत्राणि सोमं तावुभौ ब्रह्मण्याविति सोऽब्रवीत् पूजितौ पूजयन्तौ स्तुतौ स्तुन्वन्तै प्रियौ प्रियक्तै ब्रह्मण्यौ ब्रह्मवित्तौ ब्राह्मणानां प्रतिष्ठातारौ भवत इति यन्मां ब्रह्मणा वक्ष्यन्ति यज्ञेषु सोऽहमिति विष्णुरब्रवीत् तस्माद्विष्णुर्यज्ञो यज्ञो ब्राह्मणानां प्रतिष्ठा इति । विज्ञायते च । ‘ब्राह्मणो वै छन्दांसी । त्येतस्मात् ब्राह्मणात् यन्मां ब्राह्मणा वक्ष्यन्ति नक्षत्रेषु तत्राहमिति सोऽब्रवीत्, तस्मात् ब्राह्मणानां सोमो राजेति तस्माद्विज्ञायते च ब्राह्मणो वा अष्टाविंशेो नक्षत्राणां तस्य वचः पुण्यमिति तावुभौ ब्रह्मण्यौ ब्रह्मवित्तौ ब्राह्मणानां मतिष्ठातारौ ब्राह्मणेषु प्रतिष्ठितौ य एवं ब्राझणपुरस्कृतानि कर्माणि करोति यज्ञस्य समृद्धया' इति च श्रुतिप्रसिद्धत्वात् । एवमत्र शान्तिकौष्टिकादिषु प्रधानकर्मत्व । नवग्रहमखस्य पञ्चामिकुण्ड विधानमुक्तम् । ‘अथ अदृशान्ति व्याख्यास्यामः आहायता लोकयात्रा तस्मादात्म क्रुिद्धे प्रप्ते महान् सम्क् पूजयती' ति ॥