पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/१३९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७५ वेस्रानसगृह्यसूत्र तात्पर्यचिन्तामणौ ग्रहशान्तेः कथं प्राधान्यमिति चेदुच्यते । 'उधन्तमस्तंयन्तमादित्य मभिध्यायन् कुर्वन् ब्राह्मणो विद्वान् सकलं भद्रक्षुतेऽसावादित्यो ब्रह्मति ब्रौव सन् ब्रह्माप्येति य एवं वेद ' इति 'य एषोऽन्तरदित्वे हिरण्मयः पुरुषो दृश्यते इति 'योऽसौ नपन्नुदेति' इत्यादि विष्णुशक्तस्वस्थानं सदाऽऽदित्ये करोति च' 'भ्रयम्मदा इति सवितृमण्डलमध्यवर्ती' त्यादिभिश्च वचनैः यत्प्रतिपादितं सवितृमण्डलमध्यवर्तिनो भगवतो नारायणम्य यजनं तदेवेदमित्यभिप्रायेण सूत्रकारैरस्य ग्रहयज्ञस्य प्राधान्यमुक्तम् । नथान्ते 'अन्यथा महत्तरो दोषो भवतीत्यप्युक्तम् । बोधायनश्च - 'अथातो ग्रहातिथ्यबलिकर्मोपहारान् व्याख्यास्याम अश्रद्धधानमशुचिमजपं त्यक्तमङ्गलम् । ग्रहा नयन्ति सुव्यक्त पुरुपं यमसादनम् । ग्रहाणामुग्रचेष्टानां नक्षत्रपथचारिणाम् । , उपहारान् प्रवक्ष्यामि शान्त्यर्थन्तु यथाविधि ।। मासि माम्यूतावृौ चन्द्रग्रहे सूर्यग्रहे विषुवेऽयने शुभाशुभे जन्मनक्षत्रे तद्महाणामानिथ्यं संवत्सरादपि प्रयुञ्जानः सर्वान् कामानवाति' इति ग्रहशान्ति कालं निरुप्य ग्रहा गावो नरेन्द्राश्च ब्राह्मणाश्च विशेषतः । पूजिताः पूजयन्त्येनं निर्दहन्यवमानिता '। इत्यकरणे प्रत्यवायमपि दर्शितवान् । तस्मादेव सूत्रकरैः सूर्यचन्द्रौ विना लोकप्रवृत्यसम्भवात् सूर्यप्रधानत्वाच ग्रहाणां सर्वकर्मणामादौ अहपुरस्कारमुक्ता तत्र पञ्चामिकुण्डविधानमुपदिश्य प्रधाने सभ्ये विष्णुरूपस्य सवितुः होमः 'सभ्ये सतुि 'रिति प्रतिपादितः । एवम् –' नारायण परं ब्रह्म - 'ब्रौद भूतानां ज्येष्ठां तेन कोऽर्हति स्पर्धितुम्--'अवैि देवानामवमो विष्णुः परमः तदन्तरेण सर्वा अन्या देवताः।