पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/१४०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वैखानसगृह्यसूत्र तात्पचिन्तामणौ इत्यादिश्रुत्यनुसारेण तसाद्गृहे परमं विष्णु प्रतिष्ठाप्य सायं प्रातहॉमान्तेऽर्चयति इति नारायणपत्वेन सूत्रान्तरेष्वनुक्तमाराधनविधिमुक्ता तत्र 'स वा एष पुरुषः पञ्चधा पञ्चात्मा इत्यादिश्रुत्यनुसारेण पधमूर्तिविधानमप्युक्तम् । आधारादिषु श्रौतवदेवेति प्रत्यक्षसिद्धमिति पूर्वमेवोक्तम् । एवमन्यत्रापि द्रष्टव्यम् ॥ श्रुतिमार्गानुसारित्वे को विशेष इति चेत्-उच्यते । श्रुतिमूलवे हि प्रामाण्यातिशयसम्भवः । यथाह वेदस्मृतिस्सदाऽऽचारः स्वस्य च प्रियमात्मनः । एतचतुष्टयं प्राहुः साक्षाद्धर्मस्य लक्षणम् । सर्वन्तु समवेक्ष्यैतदखिलं ज्ञानचक्षुषा । श्रुतिप्रामाण्यतो विद्वान् स्वधमें निविशेत वै' ॥ इति श्रीभारते– “वेदप्रणिहितो धर्मो ह्यधर्मस्तद्विपर्यय । वेदो'नारायणस्साक्षात्वयम्भूरिति शुश्रुमः' । इति प्रचेताः – 'अममांस्या बहिश्शास्रा ये चान्ये वेदवर्जिताः । यत्तद्ब्रूयुर्न तत्कुर्याद्वेदाद्धर्मो विधीयते' । इति स्मृत्यन्तरे- 'धर्म जिज्ञासमानानां प्रमाणं प्रथमं श्रुतिः । द्वितीयं धर्मशास्रन्तु तृतीयं लोकसङ्गहः' । इति एतावता सर्वकर्मसु श्रुतिमार्गानुसारित्व रूपः तृतीयो हेतुर्निरूपितो भवति । तथाच श्रुतिमार्गानुसारित्वादस्य सूत्रस्य सर्वसूत्रोत्तमत्वं सिद्धयति इति निरूपितस्तृतीयो हेतु इति तृतीयहेतुनिरूपणम् । ७६ '