पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/१४१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ चतुर्थहेतुनिरूपणम् इदानीं तावत् वैखानससूत्रोक्तधर्मानुष्ठानेन अनन्तिस्थरफलप्राप्तिः सकुली नत्वं फलभूयस्त्वमपि भवतीति ज्ञापयितुं 'समन्त्रकसर्वक्रियाप्रतिपादकत्वादिति चतुर्थो हेतुनिरूप्यते । तद्यथा :- अत्र सूत्र नित्यानुष्ठानविधौ 'इन्द्रोऽहमुभाभ्यामि ; त्यारभ्य कर प्रक्षालनादीनि समन्त्रकत्वेनोक्तानि । ब्रह्मयज्ञे 'ऋतञ्च सत्यञ्चे ' त्यादि विशेषः । पुण्याहे समन्त्रकत्वं स्पष्टम् । सूत्रान्तरेष्वनुक्तमौपासनाग्कुिण्डविधानं प्रतिपादितम् । आधारविधौ समत्रकवं सिद्धम्। अन्तहोमे तथैव । नान्दीमुख पूर्वकोपनयनादिषु शारीरेषु संस्कारेषु समन्त्रकत्वं प्रत्यक्षम्। स्थालीपाकादिषु पूर्वव'दित्यनेन पूर्वं विस्तरेण प्रतिपादितस्याघारविधेः प्रयोगौकर्यार्थं संक्षेपेण प्रतिपादनम् । अपरक्रियायामप्यति समन्वकत्वम्। तत्र कचित् 'तूष्णी'मित्युक्तत्वात् समन्त्रकत्वं नास्तीति स्वयमेवाशक्य प्रकारान्तरेण समन्त्रकत्वं प्रत्यपादयत् । तत्र तत्र कचित् मन्त्रयोग्यताभावेपि विहितविषये सर्वत्र समन्त्रकत्वम स्तीत्यवगम्यते । सूत्रान्तरेषु विहितविषयेष्वपि समन्त्रकवानुतेः तेषां समन्त्रक सर्वक्रियात्वं नास्ति । तत्र अपरक्रियायामपि सूत्रान्तरानपेक्षा दृश्यते । बोधायनेन अग्रिमुखादिषु परिधिपरिस्तरणादिक्षेपणं तूष्णीमेवोक्तम्। समन्त्रकत्वेन कर्मणामुक्तौ को विशेष इति चेत्-उच्यते । कर्मणां मन्त्रवत्वेहि वीर्यवत्तरत्वं कर्माराध्यभगवत्प्रीणनद्वारा अनन्तस्थिरफलप्राप्तिः सत्कुली नत्वञ्च भवन्तीति स्मृतिपुराणादिष्ववगम्यते । यथा-- छान्दोग्ये – 'यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्रं भवती 'ति । तत्रैवं व्याख्यातम् । 'मन्त्रप्रकाशितानि कर्माणि क्रियन्ते नामन्त्र कमति कर्मे' ति ।