पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/१४२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वैखानसगृह्यसूत्र तात्पर्यचिन्तामणौ आथर्वणे– ‘ऋग्यजुस्सामाख्या(?) मन्त्रेषु कर्माणि कवयो यान्यपश्यन्निति । आरण्यपर्वणिः– 'व्रतोपनयनाभ्यां वा उपवासेन वा द्विजः । क्रियामत्रैश्च संयुक्तो ब्राह्मणस्यान्न संशयः ॥ इति 'गुणाभावे फलं न्यूनं भवत्यफलमेव वा । अनारम्भे तु न फलं न गुणो दृश्यते द्युत ' ॥ इति बृहन्नारदीये– 'अमन्त्रतो हविर्यतु हूयते जातवेदसे । अपात्रे दीयते यच तद्धोरं भोगसाधनम् । हुतं हविश्धाशुचिना दत्तं यत्कर्म यत्कृतम् । तत्सवं तव भागाहमध:पातफलप्रद' ॥ इति बलिचक्रवर्तिनं प्रति भगवता वामनेनोक्तम् । बोधायनः – : गोभिरथैश्च यानैश्च कृष्या राजेोपसेवया । कुलान्यकुलतां यान्ति यानि हीनानि मन्त्रतः । मन्त्रतस्सुसमृद्धानि कुलान्यल्पधनान्यपि । कुलसंख्याञ्च गच्छन्ति कर्षन्ति च महद्यश ' । इति मनुरपि- 'कुविवाहैः क्रियालोपैः वेदानध्ययनेन च । कुलान्यकुलतां यान्ति ब्राह्मणातिक्रमेण च । शिल्पेन व्यवहारेण शुद्धापत्यैश्च केवलैः । गोमिरथैश्च यानैश्च कृष्या राजोपसेक्या ॥ अयाज्ययजनाचैव नास्तिक्येन च कर्मणा । कुलान्यकुलतां.यान्ति यानि हीनानि मन्त्रतः । ७ मन्त्रतस्तु समृद्धानि कुलान्यल्पधनानि च । कुलसंख्याञ्च गच्छन्ति कर्षन्ति च महद्यशः ? ॥ इति