पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/१४४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ पञ्चमहेतुनिरूपणम् अथास्य श्रीवैखानससूत्रस्य सर्वोत्तमत्वे तत्सूत्रोक्तधर्मानुष्ठातृणामपि सर्वो त्कृष्टत्वे च इतरसूत्रिषु मुख्यत्वेननुपपन्ने निषेकादिसंस्कारादिमत्त्वमस्य सूत्रस्य मुख्यत एवोपपद्यत इति ज्ञापयितुं निषेकादिसंस्कारादिमत्वादिति पञ्चमो हेतुर्निरूप्यते । यथा - 'अथ निषेकादिसंस्कारान् व्याख्यास्यामः, ऋतुसङ्गमने ? त्युपक्रम्य 'पाणिग्रहणा' नीत्यन्तेन शारीरसंस्कारा निषेकसंस्कारपूर्वकत्वेन प्रतिपादिताः । ननु - जातक ोपनयनविवाहानान्तरभाविनो निषेकस्य कथमादित्वं प्रतिपाद्यते ! । तथा ‘ब्राह्मणोऽस्य मुखमासीत् ' ' मनसा त्वेव भूतानि पूर्व दक्षेऽसृजत्तदा' इत्यादिश्रुतिस्मृतिषु निषेकेन विना उत्पत्तिदर्शनाच निषेकस्य किमर्थमादित्वं प्रतिपाद्यते ? । जातकस्यादित्वं श्रीभारते चावगम्यते । जातकर्मादिभिंतु संस्करैः संस्कृतशुचिः। वेदाध्ययनसम्पन्नष्षट्सु कर्मस्वस्थितः ॥ शौचाचाररतस्सम्यक् भिक्षार्थी च गुरुप्रियः । नित्यव्रतस्सत्यपरः स वै ब्राझण उच्यते' ॥ इति एवं हरिवंशे – ‘क दाराः कच संसर्गः कच भावविपर्ययः । यदियं ब्रह्मणा सृष्टा मनसा मानसी प्रजा ॥ यद्यति तपसो वीर्य युष्माकं विदितात्मनाम् । सृजध्वं मानसान् पुत्रान् प्राजापत्येन कर्मणा । इति निषेकं विनापि उत्पित्तः श्रूयते इति निषेकस्यादित्वं न सम्भवति इति चेत् तदसत् । निषेकविरहेऽपि उत्पत्तिस्सम्भवतीत्येतन्नोपपद्यते । तपोबलाद्योगबलाच भगवतो नारायणय ब्रह्मणो महर्षीणां वा मानसमजामृष्टौ शक्तित्सम्भवति । नन्येषाम् । यथा –