पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/१४५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशविधहेतुनिरूपणम् श्रीविष्णुपुराणे- 'सङ्कल्पाद्दर्शनात् स्पर्शात् पूर्वेषामभवन् प्रजः । तपोविशेषैरिद्धानां तदाऽत्यन्तपस्विनाम् ? ॥ 'युगे युगे भवन्त्येते दक्षाद्या मुनिसत्तमाः । पुनचैव निरुद्धयन्ते विद्वांस्तत्र न मुह्यति । कानिष्ठयं श्रयैष्ठयमप्येषां पूर्वं नास्ति द्विजोत्तम । तप एव गरीयोऽभूत् प्रभावश्चैव कारणम्' । इति रुद्रोत्पत्तिरपि निषेकेनेति श्रूयते । शतपथे–“ अभूद्वा इदं सर्वं प्रतिष्ठा इत्यारभ्य ' 'भूतानाञ्च प्रजापतिस्संवत्सरायादिक्षत भूतानां ग्रहपतिरासीदुषा पत्नी' इत्यादिकमुक्ता ‘भूतानां पतिः संवत्सर उपसेि रेतोऽसिञ्चत् संवत्सरे कुमारोऽजायत तस्य रुद्रस्य नाम करोती 'त्यादि । निषेकक्रियाप्रकारोपिश्रूयते हि। 'नां कृत्वोरुमुपप्रवर्तयति वदा हि नम् ऊरुर्भवत्यथ मिथुनीभवतोऽथ रेतस्सिच्यतेऽथ प्रजाः प्रजायन्ते 'इति, ‘रेतस एव सिक्तस्य बहुशो रूपाणि विकरोति स वै प्रजायते श्वः श्वो भूयान् भवतीति, 'रेतो मूत्रं विजहाति योनिं प्रविशदिन्द्रियं गभों जरायुणा वृतः उल्बं जहाति जन्मना ! इति । मुण्डोपनिषदि-पुमान् रेतसिञ्चति योषितायां बह्वयः प्रजास्सृज मानास्सरूपाः इति । छान्दोग्ये-योषा वा व गौतमामि । रित्यारभ्य 'तस्या उपस्थ एव समिद्यदन्तः करोति तेऽर्चिषा अभिनन्दा विस्फुलिङ्गास्तमिन्नौ देवा रेतो जुह्वति तस्या आहुतेर्गर्भस्सम्भवती' ति च । श्रीविष्णूपुराणे : - 'प्रजास्सृजेति व्यादिष्टः पूर्वं दक्षस्वयम्भुवा । यथा ससर्ज भूतानि तथा श्रुणु महामते । मनसा त्वेव भूतानि पूर्व दक्षोऽसृजत्तदा । देवान् ऋषींस्तु गन्धर्वानसुरान् पन्नगांस्तथा ॥ यदाऽस्य सृजमानस्य न व्यवधेन्त ताः प्रजाः । ततस्सञ्चिन्त्य बहुशः सृष्टिहेतोः प्रजापतिः ॥