पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/१४६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वैखानसगृह्यसूत्र तात्पर्यचिन्तामणी मैथुनेनैव धर्मेण सिसृक्षुर्विविधाः प्रजाः । ततः प्रभृति मैत्रेय प्रजा मैथुनसम्भवाः । भारते - .'न चैषां मैथुनो धर्मो वभूव भरतर्षभ !। सङ्कल्पादेवं चैतेषां गर्भस्समुपपद्यते । नत्र त्रेतायुगे काले संग्पर्शज्ज्ञायते प्रजा । न ह्यभून्मैथुनो धर्मस्तेषामपि नराधिप ।। द्वापरे मैथुनो धर्मः प्रजानामभवन्नृप। तथा कलियुगे काले द्वन्द्वमापेदिरे जनाः' । इति एवं श्रुतिस्मृषुि सृष्टिकालादारभ्य निषेकादेवोत्परिति श्रवणात् निषेकेन विना उत्पादनसामथ्र्याभावाच निषेकादिमत्वादित्युक्तम् । अत्रापस्तम्बीया एवमाहुः । निषेको नाम गर्भाधानमेव, निषेकगर्भाधानयो पर्यायत्वात् गर्भाधानातिरेकेण निषेकशब्दस्यार्थान्तरासम्भवाच । गर्भाधान शब्दस्यार्थे विचार्यमाणे 'गभऽस्मिन्नाधीयत’ इति व्युत्पत्त्या 'इन्द्रिये वै गर्भ इति श्रुत्यनुसारेण रेतस्सेचनमेव गर्भाधानमित्यवगतेः निषेकादित्वमस्माक मप्यस्तीति । अत्र बौधायनीयाः प्रयवतिष्ठन्ते । 'यदुक्तं निषेको नाम गर्भाधानम् निषेकगर्भाधानयोः पर्यायत्वा 'दिति – तदसत् । निषेकगर्भाधानयोः पृथक्तन प्रतिपादनात् पर्यायत्वं न घटते । यथा –‘चतुथ्र्या रुातायां निशायामलकृत्य शयनेऽभिमन्त्रयते 'विष्णुर्योनि 'मित्युपक्रम्य 'अथैनामुपैति-त्वां पूषन्नि' ति। एवं निषेक उक्तः । अथ-गर्भाधानविधिं व्याख्यास्यामः पूर्वपक्षे पुण्ये नक्षत्रे ब्राह्मणानन्नेन परिविष्य पुण्याहं वाचयित्वा अथ देवयजनप्रभृत्याभिमुखात्कृत्वा पकाज्जुहोति-प्रवेधसे कवये मेध्याये ' ित । इति गुभाधानमुक्तम् । एवं निषेकगर्भाधानयोः पृथतेन कीर्तनात् निषेक एव गर्भाधानमिति वक्तुमयुक्तम् । किञ्च आपस्तम्बसूत्रे निषेकपूर्वकत्वेनानुक्तत्वात् चत्वारिंशत्संस्कारपरिगणने अगृहीतत्वाच तेषां िनषेकाद्यास्संस्कारा न भवन्तीति ।