पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/१४७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अत्र आफ्स्तम्बीया ऊचुः । यद्यस्माकं निषेकाद्याः संस्कारा न भवन्ती त्युच्यते तर्हि युष्माकमपि तथैव, भवत्सूखेपि ‘यतो एतदुतः प्रहुत आहुतः शूलगवो लिहरणं प्रत्यवरोहणमष्टका पार्वणहोम' इतीत्यारभ्य विवाहाद्येवोक्तम् -नतु निषेकादित्वेन । किञ्च सूत्रोफ़क्रमे संस्कारगणनायामपि निषेकस्तु संस्कारत्वेन वा शब्दमात्रेण वा न प्रतिपादितः । किञ्च ‘क्तुय्र्या खातायोमित्यदिना पृथतेन विधीयमानस्य गर्भाधानस्य लक्षणप्रतिपादनाभावात् विशिष्य कालनिरूपणाभावाच (वैखानसे सूत्रे एव निषेकादित्वेन उक्तत्वाच वैखानसानामेव निषेकादित्वम्,) आवयेः उभयोरपि निषेकाद्यास्संस्कॉरा न भवन्ति इति । अयमेव सिद्धान्तः । तथा च---' निषेकाद्याः श्मशानान्तास्तेषां वै मन्त्रतः क्रियाः । गर्भाधानमृतै पुंसस्सवनं स्पन्दानापुरा ।। इति याज्ञवल्क्योौ तेषामितिशब्देन 'मुख्ये सम्भक्यमुख्यकल्पनायोगा 'दिति न्यायेन मुख्यत्वेन श्रीवैखानससूत्रे एव निषेकादित्वस्य विद्यमानत्वात् वैखानसा एव परामृश्यन्ते इति-तेषामेव निषेकादित्वम्, इतषां निषेकादित्वं न सम्भवति । अपि तु गर्भाधानादित्वमेव। अयमेव याझक्ल्क्याभिप्रायः । अथोच्येते । गर्भाधानलक्षणमनुतं विशिष्य कालश्चानुक्त इति यदुक्तम् तस्रोच्यते--सर्वेषां कारणभूतेन परमाचार्येण विखनसा प्रणीते श्रीवैखानससूत्रे 'अथ गृहीतगर्भालिङ्गानि शरीराटोपः सक्थिसीदनं द्वेषो भर्तुररुविराहारे लालाप्रकोपः खरता वाचः स्फुरणं योनेरिति गर्भस्य दैवानुवन् ज्ञात्वा आपूर्यमाणपक्षे पुण्ये पुन्नाम्नि शुमे नक्षत्रे' इत्यादिना गर्भाधानलक्षणकालयोरपि वैखानससूत्रे प्रतिपादित्वात्

  • वेदे वैखानसे सूत्रे यो धर्मः परिकीर्तितः ।

सर्वे: स धर्मोऽनुष्टयेो नात्र कार्या विचारणा । इतेि भूगुणोक्तत्वात् “अनुक्तमन्यतो ग्राह्य 'मिति न्यायात् विखनसः आचार्यत्वेन भारतादिषु प्रतिपादितवाञ्च अनुक्तांशेषु वैखानसोक्तप्रकारेण अस्माभिरपि कर्तु युक्तमिति । एतदेव युक्ततरम् । तथाहि