पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/१४८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बादीनामाचार्येण बोधायनेन स्वशिष्यान् प्रति ‘अथात्र पाकयज्ञानां प्रायश्धिति ? रित्यारभ्य * व्याहृतीनां प्रयोगे अयथाकृतं यथाकृतं भवतीत्याचार्या बुबते । तत्राप्युदाहरन्त' इति मुक्तरामुपैति प्रजानिःश्रेयसमृतुगमनमित्याचार्याः, सर्वाण्युपगमनानि मन्त्रवन्ति भवन्तीति बोधायनः यचादौ यवर्ताविति शालीकेि ? रिति--' अथास्यातिभयो भवन्ति गुरोस्समानवृत्वैिखानसः शातको राजा वा धर्मयुक्तः तेषामभ्युत्थायाऽसनं पाद्यमर्हणमध्ये वा प्रयुञ्जीत इति–‘एतममिहोत्रं सायमुपक्रमं प्रातरपवर्गमाचार्या जुवते तत्रोदाहरन्ति इति, “वैखानसानां न दुझेत्' इत्यादिसूत्रेषु 'आचार्या बुवते'इति निर्दिष्टः आचार्यः वैखानस एवेति वक्तुं युक्तम्-मन्वादीनां शारीर संस्कारवक्तत्वाभावात्, बोधायनेन प्रतिपादितस्य वैखानससूत्रे विद्यमानत्वात् गुरोः समानवृत्वैिखानसः' इति बोधायनेनैवोक्तत्वात्, ‘विखनसाचार्ये' ति भारतेप्रतिपादितत्वाच। तथा च सर्वेषां कारणभूतेन विखनसा प्रणीतत्वात् तत्सूत्रेोक्त प्रकरेण सर्वैः कर्तु युक्तमेव । किञ्च अरण्यादिपात्रलक्षणमपि तत्रैव प्रतिपादितम् । अन्येऽप्याहुः । 'अस्माकमपि निषेकादित्वं समानमिति । तदप्यसत्। गर्भाधानशब्दस्यार्थे विचार्यमाणे 'योनिं प्रविशदिन्द्रियं गर्भों जरायुणा वृत' इति प्रमाणेन गर्भगोले प्रविष्टस्य रेतस एव गर्भशब्दवाच्यत्वमवगम्यते । नवितरस्य केक्लरेतसः । तथा –“आसिञ्चतु प्रजापतिर्धाता गर्भ दधातु' इति निषेक क्रियानन्तरभावित्वात् गर्भाधानस्य, निषेकस्य तु प्रत्यार्तवं कर्तु व्योम्यतासम्भवात् अधृतरेतसः स्राक्दोषप्रसङ्गात् श्रुतिस्मृतिविरोधात् प्रत्यक्षविरोधाच निषेक एव गर्भाधानमिति वकुमयुक्तम् अथ निषेकादित्वे को विशेष इति चेत्-उच्यते । निषेकादिक्रियावतामेव श्रोत्रियत्वं धर्मशाखाधिकारित्वं ब्रह्मशरीरित्वञ्च बोधायनादिभिरुक्तम् । यथा 'निषेके गर्भसंस्कारे जातकर्मक्रियासु च विधिवत्संस्कृता मन्त्रैः चीर्णा व्रतसमापनात् श्रोत्रिया इति विज्ञेयाः शाखापाराश्च ये द्विजा विधिवत् गृह्यते पाणिमृतै चीर्णक्रतास्तुते ॥