पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/१४९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशविधहेतुनिरूपणम् मन्त्रवत्सप्रयोगेन ब्राह्मण्यां गर्भमादधुः । निषेकाद्याः श्मशानान्ताः सक्रिया ब्राह्मणाश्रिताः । । इति याज्ञवल्क्यः– * निषेकाद्याः श्मशानान्ताः तेषां वै मन्त्रतः क्रियाः । गर्भाधानमृतौ पुंसस्सवनं स्पन्दनात्पुरा / ॥ इति मनुः – 'निषेकादिश्मशानान्ताः मन्त्रैर्यस्योदिताः क्रिया । तस्य शाखेऽधिकारोऽस्मिन् ज्ञेयो नान्यस्य कस्यचित् ' । इति अत्र मनुवाक्ये 'यस्य-तस्य कस्यचित्' इत्यादिशब्दानां वैयध्र्यप्रसङ्गात् 'सर्वेषां निषेकादित्वं समानमिति वक्तमयुक्तम् । आश्वमेधिके भगवान्-“वैदिकैः कर्मभि पुण्यैः निषेकादिद्विजन्मनाम् । कार्यः शरीरसंस्कारः पावनः प्रेत्य चेह च ।। गाहोंमैजतकर्मनामचैौलोपनायनैः । स्वाध्यायैश्च तपोभिश्च विवाहस्रातकब्रतै ॥ महायशैश्च यज्ञेश्च ब्राह्मीयं क्रियते तनु ' । इति एवमन्यत्रापि द्रष्टव्यम् ॥ बोधायनेन-'यतो एतदुत'मित्यादिना सूत्रादौ विाहपूर्वकत्वेनोक्तम्। आपस्तम्बेन * अथ कर्माण्याचाराद्यानि गृह्यन्ते । इत्यारभ्य 'उपनयनं व्याख्या स्याम इति । भारद्वाजसत्याषाढाभ्यामाश्वलायनेन च 'उक्तानि वैतानिक नीत्यारभ्य वैश्वदेवपूर्वकत्वेन । द्राह्यायणेन ' अथातो गृह्यकर्माणि, उदगयन पूर्वपक्ष' इत्यारभ्य आचारादित्वेन । कात्यायनश्च 'अथातो गृह्माथालीपाकानां कर्मे'त्यारभ्य प्रतिपादितवान् । “अथ निषेकादिसंस्कारान् व्याख्यास्याम । इत्यारभ्य निषेकपूर्वकत्वेन भगवता विखनसैव प्रतिपादितम् । एवं च निषेकपूर्वकत्वेनोक्तत्वादस्य सूत्रस्य सर्वसूत्रोत्तमत्वं एतत्सूत्रोक्त धर्मानुष्ठानेनैव तत्सूत्रिणां सर्वोत्कृष्टत्वञ्चोपपद्यते इति श्रुतिस्मृतिपुराणादमुखन प्रतिपादितमिति निरूपितः पञ्चमो हेतुः । इति पञ्चमहेतुनिरूपणम्