पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/१५१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गाणे वाऽभ्यन्तरे वापि दुःख उत्पादिते परैः । न प्रकुप्यति नो हन्ति सा क्षमा परिकीर्तिता ॥ सगुणान् गुणिनो हन्ति() स्तौति मन्दगुणानपि । नान्यदोषेषु रमते साऽनसूया प्रकीर्तिता ॥ अभक्ष्यपरिहारश्ध संसर्गश्चाप्यनिन्दितैः । स्वधर्मे शौचमेतदुदाहृतम् ॥ च व्यवस्थान शरीरं पीछयते येन सुशुभेनापि कर्मणा । अत्यन्तं तन्नकर्तव्यमनायासस्स उच्यते । प्रशस्ताचरणं नित्यमप्रशस्तविसर्जनम् । एतद्धि मङ्गलं प्रोक्तमृषिभिस्तत्वदर्शिभिः ॥ खोकादपि प्रदातव्यमदीनेनान्तरात्मना। अहन्यहनि यकिञ्चिदकार्पण्यं तदुच्यते । यथोत्पन्नेषु सन्तोषः कर्तव्यस्वागतैर्धनैः। परार्थान् नाभिभाषेत साऽस्पृहा परिकीर्तिता ॥ इति प्रसङ्गादिदमुक्तम् । प्रकृतमनुसरामः । अथ अष्टादशस्मृत्युक्तानि अष्टादशपुराणेवूक्तानीति वा मुण्डकश्रुत्यर्थोऽस्तु इति चेत्-तदप्यसत्-स्मृतिपुराणादिषु अष्टादशकमति विशिष्यानुक्तत्वात् । अत्र 'अष्टादशोक्तमवरं कर्म येष्वि' ति सामान्येनोक्तत्वात् तलोक्तानां योगादीनामप्यपवर्गापकत्वाभावात् पुनरपि जरामृत्युमापकत्वाद्य न स्मृतः पुराणेषुक्तानीति वतुं युक्तम् । विश्व पापपुराणे- 'वैष्णवं नारदीयञ्च तथा भागवतं शुभम् । गारुडञ्च तथा पादं वाराहं शुभदर्शने ! ॥

  • अत्र अष्टादशपुराणेषु स्मुतिषु चोक्तानां श्रौतस्मार्तकर्मणामेव अवरमिति

पर्युदासो न पर्याप्त: । तत्रोक्तयोगादीनामपि केषांचित् जीर्णप्लवत्वस्य सिद्धत्वादिति बः ।