पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/१५३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अन्यथा स्वर्गमोक्षनिरयाणामेकरूपत्वाङ्गीकारापातात् । अतः श्रीमद्वैखानस सूत्रोक्ताष्टादशसंस्कारा एवेत्यवगन्तव्यम् । बोधायनसूत्रे संस्कारसङ्खया न कृता । आपस्तम्बादिनापि पञ्चमहायज्ञानां नित्यहोमस्य च पाकयज्ञत्वेनांगीकारात् एते षोडसंस्कारा इति विक्च्यिानुक्तत्वात् अपरसंस्कारप्रतिपादनाभावाच न तत्रोक्ताः गृहीतुं शक्याः । श्रीवैखानसे तु क्रियाबाहुल्यमप्यस्ति । तथा हि । अष्टादशसंस्काराः पाकयज्ञाश्च पृथतेनोपदिताः । वर्षवर्धनाद्यास्तु विशेषाः । पञ्चमहायज्ञसहिता द्वाविंशद्यज्ञाः-पञ्चमहायज्ञानामेकत्वम् । अपरश्चाष्टादशव्यतिरिक्त इति । क्रियाबाहुल्येन किमाधिक्यमिति चेत्-उच्यते । मुण्डोपनिषदि क्रियावानेष ब्रह्मविदां वरिष्ठः'इति ‘क्रियावन्तः श्रोत्रिया ब्रह्मनिष्ठाः स्वयं जुह्वत एकर्षि श्रद्धयन्तः । तेषामेवैतां ब्रह्मविद्यां वदेत ? इति च श्रूयते । बोधायनः-' तस्माद्यः कश्चन क्रियावान् सतामनुमताचारस्स श्रोत्रियस्स एव विज्ञेयस्स एव िवज्ञेयः? इति। किंच-कर्मभूयस्त्वात् फलभूयस्त्वञ्च 'यथेोपासनं फल 'मिति न्यायात् सिद्धयति । अतः--अष्टादशसंस्कारप्रतिपादकत्वादस्य सूत्रस्य श्रेष्ठत्वं एतत्सूत्रिणां सर्वोत्कृष्टत्वञ्चोपपद्यत इति निरूपितः षष्टो हेतुः । 12-A इति षष्ठहेतुनिरूपणम् ।