पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/१५४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ सप्तमहेतुनिरूपणम् अथ श्रीवैखानससूत्रस्य इतरसूत्रापेक्षाभावात् स्वातन्त्र्यमस्तीति ज्ञापयितुं साङ्गक्रियाकलापवत्वादितेि सप्तमो हेतुर्निरूप्यते । तथाहि - अत्रसूत्रे अष्टादश संस्काराः शारीराः प्रसिद्धास्साङ्गाः एव प्रतिपादितः । ननु – अकुराणशताभिषेकाद्वियसंसर्गपुत्रपरिग्रहब्रह्ममेधवृषोत्सर्जनादि प्रतिपादनाभावात् साङ्गक्रियाकलापवत्वं नास्तीति चेत्-तदसत् । इयं शङ्का श्रीवैखानससूत्रस्वरूपानभिज्ञत्वकृता । इदं सूत्रमेकादशप्रक्षात्मकम् । अत्र न प्रति पादितानीति उक्तिः, अतििरक्तत्वेन गृह्मपरिशिष्टसद्भावाज्ञानात् । गृह्यपरिशिष्टः सद्भावः कथमवगम्यते इति चेत्-उच्यते । अथहुरार्पणविधिं व्याख्यास्यामः' इत्यारभ्य स्वण्डद्वयेनाडुरार्पणमुक्तम्। सायं स्थण्डिले सहस्र पिटेन सोमरूपाणि करो ) तीत्यत्र विशेषेण शताभिषेकं पूर्वाहे पुण्याहं द्विजभोजन'मित्यारभ्य सायं गोमयसंलिप्ते स्थण्डिले प्रागनुन्नते । प्राचीरेखा द्वपञ्चाशत्संख्यया तत्र सलिखेत् । उदीचीश्च तथा रेखा शिसंख्यया िलखेत्। इत्यादिना शताभिषेकप्रयोगश्च उक्तः । तथा 'धीतवस्त्रधारिणौ स्याता । मित्याभ्य 'दीपावलते गेहे व्रीहीनास्पोर्य तत्र वै। चर्माभावे कटं वापि तदूध्र्वे व मास्तरे 'दिति। शेषहोमेऽन्होमान्ते आसीनं तत्र चर्मणि । विसृजामि ऋतचेति तद्व्रतं चर्म सन्यजेत् ।। इत्यादिना अमिद्वयसंसर्गमकरः प्रतिपादितः ॥