पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/१५५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पुत्रपरिग्रहमकरश्च त्यागविक्रयदानेषु प्रोक्तष्वपि ततस्मृतौ । एकं न दद्यान्नेो गृह्यात् न स्त्री भननुज्ञया' । इत्यादिना ह्ममेधविधिस्तु संस्कारो ब्रह्मनिष्ठानां सदाचारवतामपि । ब्रह्ममेधोऽतिफलदो न सर्वेषां द्विजन्मनाम्' ॥ इत्यादिना वृषोत्सर्गविधिस्तु वृषोत्सर्गविधिं वक्ष्ये येन प्रेतत्वमोचनम् । स्रात्वाऽथ वास्तुहोमान्ते प्रेतत्वस्य विमुक्तये ॥ इत्यादिभि एवं अत्रानुक्तानि सर्वाणि गृह्यपरििशष्ट प्रोक्तानि इति वेदितव्यम् । बोधायनादिभिरप्येते साङ्गा एव प्रतिपदिता इति चेत्-न । ' सति कुडये चित्रकर्मे ? ति न्यायेन प्रधानकर्माणि प्रतिपादितानि चेत् अङ्गविचारः कर्तव्यः | सन्ध्योपासने अर्यमदानादिकमनुक्तम्। वानप्रस्थाश्रमस्वीकरणादिकमपि न प्रतिपादितम् । वानप्रस्थाश्रमस्वीकरणास्वीकरणारण्याहरणपात्रलक्षणादिषु वैखानससूत्रापेक्षा अस्त्येव । देवताप्रतिष्ठादिकमुक्त लक्षणमनुक्तम् । आपस्तम्बादिभिः सन्ध्योपासनाङ्करप्रतिसरदेवताराधनयज्ञोपवीतधारणादिक मप्यनुक्तम् । आपस्तम्बादीनामन्योन्यापेक्षा प्रसिद्धा । अन्योन्यापेक्षा नाम अस्वा तन्व्यमङ्गहीनवत् । यद्यत्परवशं कर्म तत्तद्यलेन वर्जयेत् । सर्व परवशं दुःखं सर्वमात्मवशं सुखम् । एतद्विद्यात्समासेन लक्षणं सुखदुःखयोः' ॥ इति अनेन अनन्तस्थिरफलमासिँदर्शिता सूत्रान्तरनैरपेक्ष्यात् सर्व । अतः सूत्रोत्तमत्वं निरूपितस्सप्तमो हेतुः । स्वातन्त्र्यञ्च घटत इति मनः इति सप्तमहेतुनिरूपणम् ।