पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/१५६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गौतमः अथ अष्टमहेतुनिरूपणम् इदानीं तावत् श्रुतिस्मृतिपुराणादिभिः सर्वोत्तरवेनावगतस्य श्रीवैखानस सूत्रस्य अखिलशिष्टपरिगृहीतत्वमस्तीति दर्शयितुं मन्वाचैः स्वीकृतत्वादिति अष्टमो हेतुः निरूप्यते । तथाहि 'अतः परं प्रवक्ष्यामि धर्म वैखानसाश्रयम् । इत्यारभ्य पुष्पमूलफलैर्वापि केवलैर्वर्तयेत्सदा । कालपृकैः स्वयं शीणैवैखानसमते स्थितः ॥ इति व्यासः- 'मूलैरेके फलैरेके पुष्पैरेके दृढव्रताः । वर्तयन्ति यथान्यायं वैखानसमते स्थिताः' ॥ इति । 'श्रामणकेनाप्तिमाधायाऽग्राम्यभोजी । इति ।

  • श्रमणक्रेन विधानेन सायं प्रातरुपस्पृशेत्' ॥ इति ।

शङ्खलिखितौ – ‘श्रामणकेनाभिमाधाय काले कुरुविन्द-वेणु-श्यामाकनी वारादिभिर्वर्तयेत् ' इति । हारीतः – ‘वानप्रस्थो ग्राम्या ओषधीः परिवर्जयेत् । वेतामीनां स्थाने श्रामणकं वाऽमिमाधाय वल्कलशाणचर्मकुशमुञ्जविदलकं वा वसानो वैखानस प्रेोतेन विधिना वानप्रस्थो विखना भवति । अनुज्ञायिकोऽनुप्रस्थायिक श्रेति । वसिष्ठः – 'श्रामणकेनाग्मिाधायाऽहितामिवृक्षमूलिकः' । इति । बोधायनः-- 'वानप्रस्थो वैखानसशास्रसमुदाचार ' इति । आपस्तम्बः– 'एकप्तिरनिकेतः स्या' दिति । अस्य धर्मकपद-‘गार्हपत्यादीनां त्रेताग्रीनां स्थाने यम्यैकोऽमिः औपासन एव-वैखानससूत्रे दृष्टत्वात् । पाणि ग्रह्णनिमिवद्वादौपासनस्य । जैमिनीयसूत्रे सौमिकचातुर्मास्यप्रकरणे। 'भारद्वाजपूर्व यथा वैखानसपूर्व पञ्च । मेति ()