पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/१५७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अत्रोभयत्र अत्रिव्याख्यानम् –“षोडशविजा मध्ये भारद्वाजसूत्रेण प्रस्तोतारं वैखानससूत्रिणं प्रतिहर्तारं वरयेत् 'इति । कपिञ्जलसंहितायम् :- याजनाध्यापनयुतः शिष्यानुग्रहकारकः । आचार्य इति विज्ञेयो मन्त्रतन्त्रपरायणः । आश्रमे वा वने वापि पुत्रदारसमाहितः । अष्टाक्षरपरो नित्यं स वैखानस उच्यते | ग्राभ्यधर्माणि सर्वाणि वर्जयेद्वनवासकः । वल्कलाजिनसंवीतः स मैनीत्यभिधीयते ॥ इति पा द्वादशाक्षरप्रकरणे :- ... ... ... पुत्रदारसमन्वितः । वने वा पत्तने वापि जपेद्वैखानसः शुचिः । वियुक्तः पुत्रदाराद्वैः स्वयमेव वने स्थितः ॥ इति अन्यैरप्येवमेवोक्तम् । अखिलशिष्टपरिग्रहे को विशेष इति चेत् – अखिलशिष्टपरिग्रहात् प्रामाण्यातिशयोऽस्तीत्यवगम्यते । आश्वमेषिके – 'धर्म जिज्ञासमानानां प्रमाणं प्रथमं श्रुतिः । द्वितीयं धर्मशास्त्र हि तृतीयं लोकसङ्ग्रहः' । इति मनुः– ‘विद्वद्भिस्सेवितं सम्यक् नित्यमद्वेषरागिर्भि । हृदयेनाऽभ्यनुज्ञातो यो धर्मस्तं निबोधत ' । इति याज्ञवल्क्यः -- * चत्वारो वेदधर्मज्ञाः पर्पत् त्रैविद्यमेव वा । सा व्रते यं स धर्मः स्यादेको वाऽध्यात्मवित्तमः ' । इति वेदाः प्रमाणं स्मृतयः प्रमाणं धर्मार्थयुक्तं वचनं प्रमाणम् । यस्य प्रमाणं न भवेत्प्रमाणं करतस्य कुर्याद्वचनं प्रमाणम् ॥