पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/१५८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बैखानसगृह्यसूत्र तात्पर्यचिन्तामणौ न यस्य वेदां न च धर्मशाखें न वृद्धवाक्यं च भवेत्प्रमाणम् । सोऽधर्मकृद्दुष्टहतो दुरात्मा स्वात्माऽपि तस्यैव भवेत्प्रमाणम्(?) । स्मृतेरपि वेदमूलत्वे त्रेधा निवोहः कृतः । नित्यानुमेयश्रुतिमूलत्वं प्राभाकराः । *तेषामुत्सन्नाः पाठाः प्रयोगादनुमीयन्त ? इत्युत्सन्नशाखामूलत्व मापस्तम्बाद्याः । तत्प्राभाकरादिभिः दूषितं भाष्यकारानभिमतञ्च । प्राभाकरपक्षेपि नित्यानुमेयश्रुतिमूलत्वे अक्षरशो वा आनुपूर्वीविशेषविशिष्टत्वेन वा । अक्षरश इति यपुच्यते तर्हि कटतफ्यादीनामपि नित्यानुमेय्श्रुतिमूलत्वात् स्मृतित्वं स्यात् । आनुपूर्वीविशेषविशिष्टत्वेनेति चेत् नित्यानुमेयत्वं भज्येतेति। उत्सन्नशाखामूल त्वमिति पक्षे शाखासु तत्रतत्रोत्सन्ना वा उतैका शाखा उत्सन्ना बा । तस्रतत्रेति चेत् न – पदक्रमादिरूपेणाधीयमानत्वादुत्सन्नशाखामूलत्वं न घटते एकैवोत्सन्नेति चेत्-न-विष्णोरंशावतारस्य तपोयोगबलोपेतस्य सर्ववेदसाक्षात्कारवतो व्यासस्य अज्ञाताशासंभवेन एकस्यापि शिष्यम्य तदध्याफ्नसामथ्र्यसम्भवात् तथा तुः मयुक्तत्वादिति ! अतो विप्रकीर्णशाखामूलत्वं वक्तव्यम् । तथोक्तम्

  • दुर्योधा वैदिकाश्शब्दाः प्रकीर्णत्वाच्च ये खिलः ।

तद्भशैस्त एव स्पष्टार्थाः स्मृतितन्त्रे प्रतिष्ठिताः' । इति अतः श्रुतिस्मृनिपुराणादिभिः प्रामाणत्वेनावगतस्य श्रीवैखानससूत्रस्य अखिलशिष्टपरिग्रहात् प्रामाण्यातिशयोऽस्तीति 'मन्वाचैस्वीकृतत्वा 'दिति निरूपितोऽष्टमो हेतुः । इत्यष्टमहेतुनिरूपणम् ।