पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/१५९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ नवमहेतुनिरूपणम् अथेदानीमाफ्स्तम्बादिसूत्रान्तरनिष्ठानां सूत्रकारादारभ्य अविच्छिन्नत्वेन परम्परया एकान्तित्वं नास्तीति ज्ञापयितुं वैखानससूत्रणामेव तत् सम्भवतीति

  • प्रत्यक्षमनुमानञ्च शास्रञ्च विविधागमम् ।

त्रयं सुविदितं ज्ञेयं धर्मसिद्धिमभीप्सता । इति मनुस्मरणानुसारेण प्रत्यक्षादिभिरवगमयितुश्च अखिलजगदेककारणभूत श्रीमन्नारायणैकपरत्वादिति नक्मो हेतुर्निरूप्यते । अस्य सूत्रस्य नारायणैकपरवे 'उपक्रमोपसंहाराक्यासोऽपूर्वता फलम् । अर्थवादोपपत्ती च लिंगं तात्पर्यनिर्णये । इत्युक्तानि षड्धिाने तात्पर्यलिंगानि सन्ति । तथा हि-- आद्यप्रश्ने प्रथमवण्डे 'नारायणपरायण' इत्युक्तम्। एवं 'सदाऽऽप्यात्म रतो ध्यानयोगी नारायणपरं ब्रह्म पश्यन् धारणा धारयेदक्षरं परं ब्रह्मामोति नारायणपरं ब्रह्मति श्रुतिः'इत्युपसंहारे सन्यासविधौ प्रतिपादितम्। सन्ध्यो पसनादि-पुण्याहाधारान्तहोम-नान्दीमुखोपनयन-पाणिग्रहणपर्यन्तेषु अन्तकर्मणि च अतीदेवादिवैष्णवा मन्त्रा: विनियुक्ताः । एवं आघारप्रकरणे 'शरोऽङ्गारेऽौ जुहुया'दिति सूत्रेण इध्माधानं तैतिरीयब्राह्मणवावानुसारेण परब्रह्मामौ िवहितम् । परब्रक्षशब्दाभिधेयश्च भगवान् नारायण एवेति वेदान्तेषु निर्णीतम् । तथाहि 'सदेव सोम्येदमग्र आसीत्, एकमेवाद्वितीयम्' इत्यादिभिः प्रतिपन्नस्य अभिन्ननिमित्तोपादानकारणस्य यतो वा इमानि भूतानि जायन्ते--तद्ब्रह्म त्यादिनाजगत्कारणत्वं ब्रह्मशब्दवाच्यत्वञ्च प्रतिपाद्यते | तस्य 'सत्यं ज्ञानमनन्तं ब्र' त्यादिना शोधकवाक्येन स्वरूपं निरूप्यते । सत्यत्वादिविशिष्टस्य तस्य -- --