पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/१६०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • आनन्दो ब्रह्म ? इति निरतिशयानन्दरूपत्वं प्रतिपाद्यते । एतादृशब्रह्मरूपं

वस्तु 'नारायणपरं ब्रह्म ' 'तत्वं नारायणः परः ' 'एको ह वै नारायण आसीत् ' ' अपहतपाप्मा दिव्यो देव एको नारायणः इत्यादिवाक्यैः श्रीमन्नारायण एवेति नियम्यते । एवञ्च * अध्यूहन्ते' इति तैत्तिरीयवाक्यशेषस्थब्रह्मशब्दोऽपि नारायणपर एवेति प्रकृतसूत्रोक्तध्माधानमपि नारायणपरमेव । निसगृह्यसूत्र तात्पर्यचिन्तामणों एवमाधाने–“ध्यायन्नारायणमुपोष्य' इति, अन्निहोत्रे-भूमानं विष्णु ध्यायेत्' इ,ि दर्शपूर्णमासे-'उदित आदित्ये ध्यायन्नारायणं ‘विष्णोर्नुक'मिति जपित्वा' इति, सोमे च – 'नारायणपरायणस्नूष्णीमास्ते ? इति च सर्वत्रापि अभ्यासेन नारायणपरत्वेनोक्तत्वात् इदं सूत्रं नारायणपरमेव । ननु– अत्र सूत्रे प्रवासागमने आश्वयुज्याञ्च । प्रदक्षिणमर्चनं प्रणामो गुहस्य '-'भवं देवमावाह्य' इत्युक्तत्वात् सर्वत्र नारायपरत्वमस्येति कथं वक्तुं शक्यते इति चेत् –उच्यते । 'अङ्गान्यन्या देवता' इति अङ्गभूतानां ब्रह्म रुद्रादीनामपि यज्ञांशभातं भगवत्प्रसादलब्धमिति भारतादिनऽवगम्यते श्रीभगवान् -- 'ततस्ते च सुरास्सर्वे ब्रह्मा ते च महर्षयः । वेददृष्टन विधिना वैष्णवं क्रतुमारभन् । तस्मन् सत्र तथा ब्रह्मा स्वय भागमकल्पयत् । देवा महार्षयश्चैव सर्वे भागानकल्पयन् । ते कार्तयुगधर्माणो भागाः परमसंस्कृताः । प्रपुरादित्यवर्ण तं पुरुषं तमसः परम् ।

  • येन यः कल्पितो भागः स तथा समुपागतः ।

प्रीतोऽहं प्रदिशाम्यद्य फलमावृत्तिलक्षणम् ।। यज्ञीये चापि यक्ष्यन्ति सर्वलोकेषु वै सुराः । कल्पयिष्यन्ति वो भागांस्ते नरा वेदकल्पितान् ।