पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/१६१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यो मे यथा कल्पितवान् भागममिन् महाक्रतौ । स महायज्ञभागाहों वेदसूत्रे मया कृतः । । इनि श्रीभागवते - 'अहं भवो दक्षभृगुप्रधानाः प्रजेशभूतेशसुरेशमुख्य । सर्वे वयं यन्नियमं प्रपन्ना मूनऽर्पितं लोकधुरं वहामः ? ॥ इति एवं च भवादीनामपि नारायणाङ्गत्वेन पूजार्हत्वावगमात् अङ्गभावेन देवानामर्चनं न निषिद्धयते । स्वतन्त्रबुद्धया कुर्वन् हि ब्राह्मणो नरकं व्रजेत् । ब्रह्माणमिन्द्रम िवा हरेरावरणं विना । यस्तु सम्पूजयेद्विप्रः स पाषण्डी भवेद्ध्रुवम्'॥ इत्यादिना अङ्गभावेन तेषामर्चनं कुर्वतो दोषाभावस्मरणाच सूत्रे तथोक्तिः । तथा - । अन्यत्र त्यां समारोप्य यद्यपासा विधीयते । सा वृत्तिः प्रच्युता प्रोक्ता तव तत्त्वं तथैव च । त्वयि सर्व समारोप्य यद्युपासा विधीयते । सा वृत्तिः सकला ज्ञेया तव तत्वं तवैव हि ? ॥ इति ज्ञानकाण्डे कश्यपेनोपासनस्वरूपभेदप्रदर्शनात् “ िवष्णोर्नित्याच सर्वदे वाच भवती । ति मुख्यत्वेन सूत्रे प्रतिपादितत्वात् प्रच्युतिफलप्रदत्वाभावाच तेषामङ्गभावेन पूजनं युज्यते । आपस्तम्बादिसूत्रेषु सर्वसंस्काराणां सद्वारकत्वेन प्रतिपादनात् नारायणैकपरत्वेन सकृदपि स्मरणाभावात् तेषां न नारायणैकपरत्वम्। ननु-बोधायनेनापि ‘अथातो विष्णुप्रतिष्ठाकल्पं व्याख्यास्यामो द्वादश्यामेका दश्यां श्रेणायां वा यानि चान्यानि शुभनक्षत्राणि'इयारभ्य 'द्वादशनामिभ अमुष्मै स्वाहा अमुष्मै स्वाहा इत्यादिना होमादिकमुक्ता त्वामेकमाचं पुरुषं पुरातनं नारायणं विश्वसृजं यजामहे । त्वमेव यज्ञो विहितो विधेयः त्वमात्मनाऽत्मन् प्रतिगृह्णीष्व हव्यम्' ॥ 13-A