पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/१६२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वैखानसगृह्यसूत्र तात्पर्वचिन्तामणौ इति नारायणैकंपरत्वेन प्रतिपादनात् कथं तेषां नारायणैकपरत्वं नास्तीत्युच्यत इति चेत्- सत्यम् । आफ्स्तम्बादीनामाचार्येणानेन बोधायनेन नारायणैकपरत्वेन प्रतिष्ठादिकमनुक्तम् । किन्तु । 'अथ रुद्रप्रतिष्ठविधिं व्याख्यास्यामः चतुथ्र्या मष्टम्यामाद्रयामपभरण्यां वा यानि चान्यानि शुभनक्षत्राणि 'इति प्रकृत्य 'भवाय देवाय स्वाहे । त्यादिभिः 'भवस्य देवस्य पत्न्यैस्वा' हेत्यादिभिश्च होमादिकमुक्ता त्वामेकमाद्य पुरुषं पुरातनं रुद्रं शिवं विश्वसृजं यजामहे। त्वमेव यज्ञो विहिनो विधेयस्त्वमा त्मनाऽऽत्मन् प्रतिगृहष्व हव्य ' ॥ इति शिवप्रतिष्ठा, एवं । अथातो महादेवस्याहरहः परिचर्याविधिं व्याख्यास्यामः' इत्यारभ्य'महादेवमावाहयेत्-आयातु भगवान् महादेव' इति पृथक्तन रुद्रपूजा च प्रतिपादिता। तथा-अन्यत्र 'अथातोऽर्धमासेऽमासेऽष्टम्यां ब्राह्मणाः स्त्रियश्चाहु इत्यारभ्य ' थ प्रदोषे रुद्रं विरूपाक्षं सपनीकं ससुतं सपार्षद' मित्यादिभिः रुद्रावाहनमुक्तम् । एवं 'आदित्यमबिकां विष्णु गणनाथं महेश्वर' मिति पञ्चपूजा च । अतः बोधायनसूत्रं नारायणैकपरं न भवति । अथ आपस्तम्बादयः किं नारायणैकपराः –उत रुद्रपरा: आहोस्वित् नानादेवतापरा:? । नारायणैकपरा इति चेन्न । जातिकुलअचारादिष्वागोत्र प्रथमादारभ्य श्वश्रूरस्य दिगम्बरव्रतवती सम्बन्धिनस्सौगताः माता चास्य पिता च पाशुपतिनौ वैशेषिको देशिकः । भ्राता तिष्ठति साङ्खयोगसमये चार्वाकशिष्यस्सखा मिथ्याचारसमाहूयस्वयमसौ यिलाविको वैदिकः । इत्युक्तरीत्या एतेषां शैवाशुपतवैष्णवाद्याकारेण विद्यमानत्वात् आपस्तम्यादि सूत्राण्यपि नारायणैकपराणि न भवन्ति । भगवतो नारायणस्य समाराधनविधिप्रति पादनाभावाश्च । नारायणैकपरछेदापस्तम्बदिसूत्रं तर्हि तत्सूत्रेोक्तधर्मानुष्ठातारः