पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/१६३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्वेऽपि नारायणकपरा एव स्युः । न च तथा दृश्यते । पांचरात्राद्युक्तमार्गेण वैष्णवत्वसम्पादने 'स्वसूत्रे विद्यमाने तु’-‘स्वसूत्रस्य परित्यागात्'-'यस्वधर्म परित्यज्य '-'विधर्मः परधर्मश्च '-'श्रेयान् स्वधर्मो विगुणः' इत्यादि वचनप्रतिपादितस्वसूत्रपरित्यागपरधर्मस्वीकारशाखारण्डत्वादिदोषाः प्रसज्येरन् । 'स्वशास्त्रनिर्णये सन्ये सत्याः स्युलोकनिर्णया । इति स्वसूत्रस्य प्रामाण्यबुद्धिश्ध तेषामवर्जनीया । वैश्वानसानां सूत्रकारादारभ्य अविच्छिन्नत्वेन श्रीमन्नारायणैकपरत्वे नाराधनादिकं प्रत्यक्षसिद्धम् । तथा च सूत्रम्- 'गृहे देवायतने वा भक्तया भगवन्तं नारायणमर्चयेत्तद्विष्णोः परमं पदं गच्छतीति विज्ञायते इति । इतरेष्वापस्तम्बादिषु पितृ पितामह मातुल मातामह पुत्र पौत्र भ्रातृ सम्बन्धिषु केचिच्छैवाः केचित् पाशुपताः केचिच्छाक्ताः नानादेवतापराश्चेत्येवमाकारेण दृश्यन्ते । * जन्मान्तरमहस्रषु तपोज्ञानसमाधिभिः । नराणां क्षीणपायानां कृष्णे भक्तिः प्रजायते ॥ इति कषाञ्चित् स्वकृतपूर्वपुण्यविशेषान्नारायणपरत्वसम्भवेऽपि स्वसूत्रकारमारभ्य स्वपर्यन्तमविच्छिन्नत्वेन तदस्तीति वक्तं न शक्यते । अत – नानाकामहतज्ञाना नानादैवतयाजिनः । नरा भगवदैकान्त्ये न स्थास्यन्ति कलौ युगे ।। आगमादनुमानाच प्रत्यक्षादुपपतितः । परीक्ष्य निपुणं बुद्धया श्रद्धातव्यं विपश्चिता । । इति वायुपुराणादिक्चनादागमादिभिर्निपुणे परीक्ष्य निर्णीत एवार्थः विपश्चिि अनुष्य ननु-किमर्थ नारायणैकपरत्वेन सूत्रं प्रणीतमिति चेत्-उच्यते । नारायण अखिलजगदेककारणत्वात् परंब्रह्म परमात्मादिशब्दवाच्यत्वात् अपवर्गादिफल त्वात् समाभ्यधिकरहितत्वाव नारायणैकपरत्वेन प्रणीतम् । अत्र–“नारायणाद्र