पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/१६५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शविधहेतुनिरूपणम् १०१ सम्भवति । रुद्र हर पशुपति नीलीव शितिकण्ठ भव शर्व कपदत्यादीनामेकत्वेन श्रूयमाणानामेकत्वं न सम्भवति । ईश्वरमहेश्वरपरममहेश्वर इनि परममहेश्वरशब्द श्रवणात्। 'शिवएको ध्येयः शिवश्शङ्करः सर्वमन्यत्परित्यज्ये' त्यादिना शिवशब्द वाच्यादधिकत्वेन शिव नरशिवतमशब्दवाच्यस्य विद्यमानत्वात् । शम्भुशब्दश्य विश्वशम्भुत्वश्रवणात् ईशानस्य जगदीशानत्वश्रवणात् महादेवम्य 'तमीश्वराणां परमं महेश्वरं तं देवनानां परमञ्च दैवतम् । इति श्रवणाच रुद्रादीनां परंब्रमशब्द वाच्यत्वं न सम्भवति । ननु –श्रेताश्वतरे – उमामहयविशेषित परममहेश्वरशब्दवाच्यम् रुद्रत्व सम्भवात् परंब्रह्म शब्दवाच्यत्वं नस्य सम्भवतीति चेत्-न । परमहारशब्दम्य उमासहायमित्यत्र' रुद्रादिष्वनुपपन्नत्वात् । उक:रम्त्वञ्धारणार्थः । उ - मा सहाय्य लक्ष्मीसहायं परमं महेश्वरमेव त्रिलोचनत्वादिविशेषणविशिष्ट लक्ष्मीनरसिंहः ध्यात्वेत्यर्थः । यद्वा । देवमनुष्याद्यपेक्षया परममहेश्वरन्वात् . 'सृष्टिस्थित्यन्तकरणं ब्रह्मविष्णुशिवात्मकाम् । स संज्ञां याति भगवान् एक एव जनार्दन । । इनि भगवच्छरीरभूतत्वाच रुद्रस्य परममहेश्वरत्वम् । एवं “भूतं रुद्र ध्यात्वा मुनिर्मननशीलम्सन् भूतयोनिं सर्वकारणकारणं ममस्तरक्षकं तमः परम्तात गच्छति । ' आदित्यवर्णे तमसः परस्ता 'दित्यादिभि: तमः पारवर्तिन प्रकृतेः परं परमात्मानं नारायणं गच्छति-प्रामोति इत्यर्थः । किञ्च-अत्र ' सनो देवः शुभया स्मृत्या संयुनक्त | इत्यनन ' आरोग्य भास्करादिच्छेत् श्रियमिच्छेद्रुताशनात् । शङ्करात् ज्ञानमन्विच्छेत् मोक्षमिच्छेजनार्दनात् ॥ इति ज्ञानप्रदत्वात् शङ्करोपासनमुच्यते । अनं भगवता नारायणेन साम्यं ब्रह्मरुद्रादीनां नोपपद्यते । भारतेः – 'ये तु सामान्यावेन मन्वन्तं पुरुषोत्तमम् । • ते वै पापण्डिनो ज्ञेयास्सर्वकर्मबहिष्कृताः ।।