पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/१६६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०२ बारा श्रीभागवते – कौमें: -- भारद्वाजः -- वैग्वानसगृह्यसूत्र तात्पर्यचिन्तामणौ यस्तु नारायणं देवं सामान्येनाभिमन्यते । स याति नरकं घोरं यावचन्द्रादिवाकरम् । यो महाद्विष्णुमन्येन हीनदेवेन दुर्मतिः । साधारणं सकृद् ब्रूते सोऽन्यजो नान्यजोंऽयजः ॥ इति 'अन्यदेवसमं ये तु मन्यन्ते मां नराधमाः । चण्डालतां व्रजन्याशु जन्मानि नव पञ्च च । । इति “ यस्त नारायणं देवं समत्वेनावमन्यन्ते । सकृतेनावमानेन नरकान्नातिवर्तते । अस्मादन्यं परत्वेन चिन्तयानो ह्मचैतनः । स पाषाण्डीति विज्ञेयस्सर्वकर्मबिहष्कृतः ॥ इति ।

  • येऽन्यं देवं परत्वेन वदन्त्यज्ञानमोहिताः ।

नारायणाज्जगन्नाथात् ते वै पाषण्डिनः स्मृताः । यस्तु नारायणं देवं ब्रह्मरुद्रादिदैवतैः । समत्वेनैव वीक्षेत स पाषण्डी भवेद्विजः' । इति । ' अशुळ। ब्रह्मरुद्राद्या जीवा विष्णोर्विभूतय । तान्वै कुदृष्टयस्सम्यक् परत्वेनाप्युपासते' । इति । अगस्त्य प्रात रुद्रः 'यो यज्ञेरिज्यते देवो यस्मात्सर्वमिदं जगत् । उत्पन्ने सर्वदा यस्मिन् लीयते सचराचरम् ॥ नारायणः परो देवः सत्वरूपी जनार्दनः । त्रिधाऽऽत्मानं स भगवान् ससर्ज परमेश्वरः । शुद्धसत्वस्वयं जज्ञे रजस्सत्त्वादिकं विभुः । ससर्ज नाभिकमले ब्रह्माणं कमलासनम् । रजसा, तमसा युतं सोऽपि मां ससृजे प्रभु' रिति ।