पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/१६७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०३ ननु:- 'सर्वपापहरखेह पश्चात्संसारनाशनम् । सुवर्णरौप्यताम्राचैः लोहेनापि तथैव च । तथा स्याङ्गमष्टाङ्ग सुनाभश्च सुवृत्तकम् । ज्वालाचतुष्कसंयुतं कृत्वा चैव विधानतः ।। अप्रैौ प्रताप्य विधिवत् धारयेक्तिसंयुतः' । इति 'यज्ञोदानं तपो होमो भोजनं पितृतर्पणम् । चक्रलाञ्छनहीनस्य विप्रस्य विफलं भवेत् । श्राद्धे दाने व्रते यज्ञे विवाहे चोपनायने । बकाङ्कितं विप्रमेव पूजयेदपरं न तु' ॥ इत्यादिवचनैः चक्रादिनाऽनकृितस्य वैष्णवत्वाभावात् वैखानसानां कथं वा वैष्णव त्वमिति चेत् -उच्यते ॥ * यस्य मे श्रियममितां दातुं गर्भ एव करे चक्र धारयामि स चक्रवर्ती भवति' इति श्रुते वैखानसानां सर्वेषां गर्भवैष्णवजन्मनाम् । नारायणः स्वयं ग मुद्रां धारयते निजाम् । । इति सुदर्शनमभी 'त्युक्ता दक्षिणे तु सुदर्शनम् । रविपा' मिति वामे तु शङ्कञ्च बिभृयात्करे ।। इति भृगुणोक्तत्वाच्च श्रीविष्णुबलिकर्मणा वैखानसानां गर्भवैष्णवत्वादिकं प्रतिफलम्। तथा – “ इन्द्रियेभ्यः परा ह्यर्था ह्यर्थेभ्यश्च परं मनः । मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान् परः ॥ महतः परमव्यक्तमव्यक्तात्पुरुषः परः । पुरुषान्न परं किञ्चित्सा काष्ठा सा परा गतिः ।। इति श्रुतेः परमैकान्तित्वं परमपुरुषवशीकरणद्वारा गर्भगतस्य प्रपतिरपि सम्भवति । गर्मगतस्य प्रपतिरपि गर्मोपनिषदि श्रूयते । ‘ज्ञानाद्धयनादक्षरमोङ्कारं चिन्तयति