पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/१६८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०४ इत्युक्ता 'अथ नवमे मासि सर्वलक्षणसम्पूर्णो भवति । पूर्वजातिं स्मरति । कृता कृतञ्च कर्म भवति। शुभाशुभञ्च कर्म विदति। नानायोनिसहस्राणि दृष्टा चैव ततो मया । आहारा विविधा भुक्ताः पीताश्च विविधाः स्तनाः । जातस्यैव मृतस्यैव जन्म चैव पुनः पुनः । अहो दुःखैोदधौ मस्रो न पश्यामि प्रतिक्रियाम्' । इत्युक्तः 'यदि योन्याः प्रमुच्येऽहं तं प्रपद्य नारायणाम् । अशुभक्षयकर्तारं फलमुक्तिप्रदायकमिति । पुरुषसूक्तभाष्ये-मुद्रलोपनिषदि–“वामदेवोऽप्याङ्गिरसस्सन् पूर्वपूजां समारात्रिंपल्यनसूयागर्भ एव शयानो ब्रौव वेदयाञ्चक्रे स गर्भ पुरो भित्वा ब्रह्मलोकमुपचक्रामतमुत्क्रामामाह मध्येऽध्वानमिन्द्रः उपनिषद उवाच, भगवन् गर्भपञ्जरे एवाभिनिवेशमान अनभिज्ञातोपायोऽस्मात्कश्चिद्धादित्या स गभस्सर्वो मन्यमानोऽध्वनः पारमुपगच्छसी' त्यादि । तथा च गर्भगतस्य प्रपदनविचार श्रवणाद्युपपद्यत एव । वैदिकतान्त्रिकभेदेन प्रपत्तिद्विविधा-प्रणवपूर्वकत्वेन पुरुषाद्यावाहनादिकं वैदिकम् श्रुत्यन्तरे – 'अन्झरेोच्यते विष्णुस्सवेलोकेश्वरो हरिः । उद्धृता विष्णुना लक्ष्मीरुकारेण तथोच्यते । मकारस्तु तयोर्दास इति प्रणवलक्षणाम्' । इति विश्च । प्रणवोचारणमात्रेण शङ्खचक्राद्विधारणमपि सम्भवतीति श्रुयते कैवल्योपनिषदि– ‘धृतोध्पुण्डूः कृतचक्रधारी | gणु परं ध्यायति यो महात्मा । स्वरेण मन्त्रेण सदा हृदिस्थं परात्परं यन्महतो मह त । मिति । सर्वकारणभूताय सर्वरक्षकाय सर्वशेषिणे श्रियः पतये एव स्वाभाकिशेषभूत इति सर्वदाऽनु सन्धानमेव वैदिकी प्रपतिः । वैखानसगृह्यसूत्र तात्पयंचिन्तामणौ ।