पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/१७०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०६ त वैखानसगृह्यसूत्र तात्पर्यचिन्तामणौ ततो ब्राह्मणदेहोऽयं देवतागार उच्यते । तद्दाहे देवतास्सर्वे पलायन्ते दिशो दश ॥ अगारदाही स भवेत् तद्दाही ब्राह्मणाधमः । शङ्ख चक्र मृदा यस्तु कुयोत्तप्तायसंन वा ॥ स शूद्रवत् बहिष्कार्यः सर्वस्माद्विजकर्मणः । यथा श्मशानजं काष्ठमनई सर्वकर्मसु । तथा चक्राङ्कितो विप्रस्सर्वकर्मसु गर्हितः' । इति मोहाद्वा लोभतेोवापि विप्रश्चक्राङ्कितो यदि । अनर्हस्सहि विज्ञेयः श्रौतस्मार्तेषु कर्मसु । क्रियास्वनर्हतामेति यथा काठं श्मशानगम् । तथा चक्रादिना दन्धाः सर्वकर्मस्वनर्हताम् । दग्धार्धकायो यत्रास्ति ग्रामे जनपदेऽपि वा । श्मशानं तद्धि विज्ञेयं वासानहं द्विजन्मनाम् । इत्यादिना दूषणमुक्तम् । एतानि तप्तचक्रांकनविधायकानि वचनानि 'विप्वा गमादितन्त्रेषु दीक्षिताना 'मित्युक्तत्वात् एकजातिविषयत्वेनोक्तत्वात् 'नान्य देहिना'मित्युक्तत्वाच तान्त्रिकागमोक्तप्रकारेण दीक्षितविषयाणीत्यवगम्यते । यद्वा विधिनिषेधवचनानां वैयथ्र्यपरिहाराय ‘वपाश्रपणीभ्यामन्वारभते तत्रैवा न्वारब्धं नैवानन्वारब्धं' 'अकश्रेक्नेव तत् नैव आशितं नैवाप्राशितम्' इत्यादि श्रुतिन्यायेन समन्त्रकत्वेन भावनारूपेण श्रीवैखानसशास्त्रे प्रतिपादितम् । यथा-- सुदर्शनमभीत्युक्ता दक्षिणे तु सुदर्शनम् । रविपामिति वामे च शङ्क, बिभृयात्करे ' । इति महोपनिषदि -ब्रह्मसूक्त -

  • दक्षिणे तु भुजे विो बि याद्वै सुदर्शनम् ।

सध्ये तु शङ् बिभृयादिति वेदविदो विदुः ॥ इति

  • प्रतिपादितमिति। -विधिवश्वमानां भवनारूपेणानष्ठानं, निषेधवचनानां

तापरूपेणाननुष्ठानं च तात्पर्यार्थः इति उभयं गच्छत इति भावः ।