पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/१७१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०७ मोहशास्रत्वात् शप्तविषयत्वाचपञ्चरात्रे तापविानं उक्तमिति केचिद्वदन्ति। पद्मपुरुणे गौतमः-'यन्मयि ब्राह्मणाभासाः! ऋजैौ कैतवमीदृशम् । अनुष्ठितं ततो वेदमार्गभ्रष्टाश्च पापिनः ।। कालामुखे पञ्चरात्रे कापाले शाम्भवेऽपि च । शाते च दीक्षिता यूयं भवत ब्राह्मणाधमः' ॥ इति ब्रह्मा - 'बौद्धे भागवते तन्त्रे तृतीये पाञ्चरात्रके । दीक्षिताश्च द्विज नित्यं भवेयुर्निर्भया हरे! ॥ श्रौतस्मार्तसमाचारे सद्योमुक्तिकरे शुभे । त्वद्भक्तिविमुखा नित्यं भवेयुः परिमोहिताः ॥ अङ्किताः श्रद्धया यूयं भवत ब्राक्षणाधमाः' । इति स्कान्दे – सूतसंहितायाम् सरस्वतीं प्रति रुद्रः – श्रुतिर्बलीयसीत्युक्ता प्रमाणानां सुलोचने ॥ इत्यारभ्य पाञ्चरात्रादिमार्गाणां वेदमूलत्वमास्तिके! । न हि स्वतन्त्रतस्तेन भ्रान्तिमूलानि रूपिणि! ।। तथापि योऽशो मार्गेण वैदिकेनाविरुद्धयते । सोऽशः प्रमाणमित्युक्तं केषाञ्चिदधिकारिणाम् । अत्यन्तस्खलितानान्तु प्राणिनां वेदमार्गतः । पाञ्चरात्रादयो मार्गाः कालेनैवोपकारकाः । तान्त्रिकाणां महादेवि न लभ्येऽव्यवधानतः ॥ इति प्रतिपादितम् कौर्मे – * पुरा दारुक्ने पुण्ये मुनयो गृहमेधिन ? ! इत्यारभ्य मायया गोकल्पनादि शापमाप्तिपर्यन्तमुक्ता “का नो वृतिर्महादेव शापान्नः त्रातुमर्हसि । तथा पार्श्वथितं विष्णु सम्प्रेक्ष्य वृषभध्वजः ।