पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/१७२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१००४ वैखानसगृह्यसूत्र तात्पर्यचिन्तामणौ किमेतेषां भवेत्कायै प्राह पुण्यैषिणामिति । ततस्स भगवान् विष्णुः शरण्यो भक्तवत्सलः ॥ गोपतिं प्राह विपेन्द्रान् आलोक्य प्रणतान् हरिः । न वेदबाहे शास्त्रे च पुण्यलेशोऽपि शङ्कर । सङ्गच्छते यतो धर्मो वेदादेव हि निर्बभौ । तथापि भक्तवात्सल्यात् रक्षणीया महेश्वर । आवाभ्यां सर्व एवैते विप्रा वै नात्रसंशयः । तस्माद्वै वेदबाह्यानां रक्षणार्थञ्च पापिनाम् ॥ विमोहनाय शास्राणि करिष्यामि वृषध्वज । एवं सञ्चोदितो रुद्रो माधवेनासुरारिणा । चकार मोहशास्राणि केशवोऽपि शिवेरितः । कापालं यामलं वामं भैरवं पूर्वपश्चिमम् ।। पाञ्चरात्रं पाशुपतं तथाऽन्यानि सहस्रशः । कृत्वा चाच् च * तद्देवान् कुर्वाणास्तत्र चोदितम् । पतन्ति नरके घोरे बहून् कल्पान् पुनः पुनः' । इत्यादिचोक्तम् । स्कान्दे शङ्करसंहितायाम्

  • नेक्षेत पूजावेलायां नरं वत्स! बहिष्कृतम् ।

दधीचिना गौतमेन ये शप्ता ब्राह्मणाधमाः । कलाववतरिपयन्ति निन्दितास्ते बहिष्कृताः ? ॥ इति साम्बपुराणे:- 'श्रुतिम्रष्टः स्मृतिप्रोक्तप्रायश्चिते भयं गतः । क्रमेण श्रुतिसिद्धयर्थ मनुष्यस्तत्रमाश्रयेत् ॥ धर्मशास्र पुराण च प्रोक्तं हि मरणान्तिकम् । प्रायश्चित् मनुष्याणां पापिष्ठानां सुदारुणम् ।।

  • तद्देवान्-तेषु शास्त्रेषु परत्वेनोक्तान् देवानित्यर्थः ।