पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/१७३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशविधहेतुनिरूपणम् भयं दुर्बलचित्तानां मरणे जायते भृशम् । तेषामेवाभिरक्षार्थे तदहं तन्त्रमुक्तवान् । पाश्चरात्र भागवतं तन्त्रं सात्वतनामकम् । वेदभ्रष्टान् समुद्दिश्य कमलापतिरब्रवीत् ' ॥ इति अन्यत्र – ' अथांशोः सात्वतो नाम विष्णुभक्तः प्रतापवान् । महात्मा दाननिरतो धनुर्वेदविदां वरः । स नारदस्य वचनाद्वासुदवाचेन स्त । शास्त्रं प्रवर्तयामास कुण्डगोलादिभिः श्रितम् । तस्य नाम्ना तु विख्यातं सात्वतं नाम शोभनम् । प्रवर्तते महच्छास्त्रं कुण्डादीनां हितावहम् ॥ इति बृद्धश्रावक निर्गन्धाः पाञ्चरात्रविदो जना । कापालिकाः पाशुपताः पाषण्डा ये च तद्विधाः । यस्याश्नन्ति हवींष्येते दुरात्मानम्तु नामसाः । न तस्य तद्भवेच्छास्त्रं प्रेत्येह च न तत्फलम्' । इति लैङ्ग – नवमाध्याये युगधर्मे अङ्किताश्च भविष्यन्ति देवतायुधलाञ्छनेः । नारायणमशृण्वन्ति युगान्ते समुपस्थिते । अन्यानि यानि कर्माणि श्रौतानि मुनिसत्तम । स्मार्तानि नाचरिष्यन्नि कलौ ब्रह्मन् नरास्सदा । आम्नायं धर्मशास्त्रञ्च पुराणं भारतं मुने । अल्पमात्रमिित ब्रह्मन् वदिष्यन्ति कलौ युगे । न कुर्युः श्रौतकर्माणि श्रद्धया मुनिसत्तम । स्वधर्मे रुचिता नlस्त ब्राह्मणानां कलौ युगे ।। पाश्चरात्र प्रशंसन्ति केचिद्भागवतं मुने । केचित्कापालमिच्छन्ति केचित्पाशुपतं मुने । । १०९