पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/१७४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वैखानसगृह्यसूत्र तात्पर्यचिन्तामणौ केचिौद्धं प्रशंसन्ति केचैिगम्बरं तथा । केचिलोकायतं ब्रह्मन् केचित्सौमं महामुने । लाकुलं केचिदिच्छन्ति तथा केचितु भैरवम् । केचिद्वामं प्रशंसन्ति केक्झ्छिाक्त तथैव च ॥ शाम्भवं केचिदिच्छन्ति यामलं भुवि केचन । अन्यानि यानि शास्त्राणि क्रुिद्धानि महामुने । तीर्थविक्रयिणः केचिद्देवविक्रयिणः परे । क्षीरविक्रयिणः केचिदाज्यविक्रयिणः परे । मांसविक्रयिणः केचित्सुराविक्रयिणः परे । पुत्रविक्रयिणः केचिद्दारविक्रयिणः परे । भर्तृविक्रयिणः केचिद्भविष्यन्ति कलौ नरः ? ॥ इति अतः पाञ्चरात्रोतं तप्तचक्रधारणं सर्वसाधारणं न भवतीति सिद्धम् । अथ यदुक्तं सर्वसाधारणं न भवतीति तन्नोपपद्यते - आथर्वणे

  • च बिभर्ति क्पुषाऽभितप्त बलं देवानाममितस्य विष्णोः । स एति

नाकं दुरिता विधूय प्रयान्ति यद्यतयो वीतरागाः ! 'चरणं पवित्रं विततं पुराणे' इत्यादि श्रुतिभिः सर्वसाधारणत्वेन श्रूयमाणत्वात् इति चेत्-न। तसचक्रधारणे प्रायश्चित्तविधानात् । अतः यथोक्तमार्गेण भावनारूपेणैव चक्राङ्कनं न तु तप्तरूपेण । सर्वसाधारणश्रुतिस्तु वैखानसेतरविषया । ‘यस्य मे प्रिय मियादिश्रुत्यविरोधेन अर्थव्यवस्थायाः कार्यत्वात् । अतः तप्तचक्राइनं सर्व साधारणं न भवति । किञ्च-'यत्र शास्रगतिर्भिन्ना सर्वकर्मसु भारत । उदितेऽनुदिते चैव होमभेदे यथा भवेत् । स गरीयान् महाबाहो सर्वशास्रोदितादपि ।। इति सुमन्तुमक्णाच व्यवस्थितविकल्पोत्र वक्तव्यः ।