पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/१७५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

किश्च ब्रह्मरुद्रादीनामपि संहारकर्ता हरिरेवेति श्रूयते । यजुषि-हरि' हरन्तमनुयन्ति देवाः विश्वस्येशानं वृषभं मतीना 'मिति । ब्रह्मपुराणेः- ब्रह्माणमिन्द्रं रुद्रश्च यमं वरुणमेव च । निगृह्माहरते यस्मात्तस्माद्धरिरिहोच्यते । ब्रह्मा शम्भुस्तथैवार्कश्चन्द्रमाश्च शतक्रतुः । एवमाद्यास्तथैवान्ये युक्ता वैष्णवतेजसा । जगत्कार्यावसाने तु वियुज्यन्ते च तेजसा । तेजसचैव ते सर्वे पञ्चत्वमुपयान्ति च । । इति ननु - हरिं हरन्तमिति पूर्वोपात्यजुर्षि ईशानशब्दश्रवणात् रुद्र एव संहारकर्तेति श्रूयत इति चेत्-तदसत् । तत्र 'विश्वस्येशान'मिित जगनियामक त्वमुच्यते । तथा च 'पतिं विश्रस्यात्मेश्वर 'िितवत् नारायण एव अत्र प्रति पाद्यः । 'अस्येशाना जगतो विष्णुपली' स हरिः सुवित्तमः, 'पेरुरिन्द्राय पिन्वत, विराडसि, ‘बृहती श्रवसीन्द्रपली धर्मपली , 'स ब्रझा स शिवसेन्द्रः । इत्यादि श्रुतयोत्र विभाबनीयाः । ननु - कम अष्टमाध्याय - रामायणसक्षप

  • स कृत्वा वानरशतैः लङ्काद्वारं महोदधौ ।

सेतुं परमधर्मात्मा रावणं हतवान् प्रभुः' । इति रावणवधादिकं प्रतिपाद्य सेतुमध्ये भहादेवमीशानं कृत्तिवाससम् । स्थापयामास लिङ्गस्थं पूजयामास राघवः । तस्य देवो महादेवः पार्वत्या सह शङ्करः । प्रत्यक्षमेव भगवान् दत्तवान् वरमुत्तमम् ' ॥

  • एवं प्रसङ्गदापतितं समाप्य पूर्वप्रस्तुतं नारायणपारम्यं सिंहावलोकनन्यायेन

समर्थयति-किञ्चेत्यादिना ।