पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/१७८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बैखानसगृह्यसूत्र तात्पर्यचिन्तामणौ तत्र सप्तत्रिंशाध्याये : 'हिरण्यकशिपोखस्तान् सेन्द्रान्देवान् बृहस्पतिः । क्षीरोदस्योत्तरं गत्वा स्तूयतां तत्र केशवः ॥ युमानिस्संस्तुतो विष्णुः प्रसन्नो भवति क्षणात् ॥ इत्या(भ्य

  • युम्भदागमनं सर्वं जानाम्यसुरमर्दनाः! ।

हिरण्यकविनाशार्थ स्तुतोऽहं शङ्करेण च ॥ इत्युक्ता हिरण्यकवधानन्तरं तस्य कोपाभिभूतस्य नृसिंहस्य जगत्पतेः । दृष्टा भयानकं रूपं वित्रेसुदेवदानवाः । । इत्याभ्यक्तस्तोत्रानन्तरं ब्रह्मसमीपगमनादिकं प्रतिपाद्य तस्मिन् भगवति कुद्ध नृसिंहे परमात्मनि । प्रवेपितं जगदिद देवेशे कुपिते भृशम् । त्वत्तो हि नान्यश्शरणं देवानामिह विद्यते । नरिसंहसमुद्भूतं भये नाशय मे हरे! ।। इत्यादिना रुमार्थनादिकमुक्ता हतो हिरण्यकशिपुः येन दैत्यो महाबलः । को नश्शमयिता तस्य कोपस्य हरिमेधसः ॥ त्वं मे जनयिना देव स ते जनयिता हरिः । तस्य देवस्य कश्शक्तो विष्णोवै निग्रहे भवेत् । यद्भयात्पवते वायुः सूर्यस्तपति यद्भयात् । यद्भयाद्धरणी धते निग्रहे तस्य कः प्रभुः । तथाऽप्युपायो दृश्यो मे परमेण समाधिना ।. कृते नस्मिन् भवेच्छेयः तूणींभावो न रोचते । अश्वानां महिषः शत्रः वारणानां मृगाधिपः । ११४