पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/१८२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ दशमहेतुनिरूपणम् अथास्य श्रीवैखानसूत्रस्य श्रीमनारायणैकपत्वाद् तत्सूत्रानुष्ठानवतामेव भगवप्रियतमत्वमुपपद्यत इति प्रतिपादनाय 'भगवप्रियतमत्वोपपते । रिति दशमहेतुर्निरूप्यते छन्दोगब्राह्मणे- 'वैखानसा वा ऋषय इन्द्रस्य प्रिया आसन् इति । अत्र इन्द्रशब्दः परमात्मपर इति पूर्वमेवोक्तम् । बाराहे – 'अश्वत्थः कपिला गावः तुलसी विखनास्तथा । चत्वारो मग्रिया राजन्! तेषां वैखानसो वर ' । इति 'यत्र वैखानसा विप्रा यत्र सन्ति गवां गणाः। यत्र बिल्वाः पलाशाश्च तत्र सन्निहितो हरिः' । इति 'मचिता मदतप्राणा मयि सङ्गतमानसाः । अनन्यशरणा राजन् तस्मद्वैखानसा वराः' । इति पाञ्चरात्रे पौष्करे-'विप्रा वैखानसास्या ये ते भक्तास्तत्त्वमुच्यते । एकन्तिनः सुसत्वस्था देहान्तं नान्ययाजिनः । कर्तव्यमिति देवेशं संयजन्ते फलं विना । प्राप्नुवन्ति च देहान्ते वासुदेवत्वमञ्जज ' ॥ इति बृहन्नारदीये – 'देवार्चनपरां ये च ये च तत्साधका नराः । पूजां दृष्टानुमेदन्ते ते वै भागवतोत्तमाः । यस्तु भोगतया विष्णोः सकृत्यं कुरुते सदा । स भवेत्परमैकान्ती महाभागवतोत्तमः । य ऐकान्यगता विष्णौ भगवत्यात्मभावने । ते वैष्णवा भागवतासन्त इत्यपि कीर्तिताः ।