पृष्ठम्:श्रीवैखानसगृह्यसूत्रम्-भागः १.pdf/१८३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मन्मानसाश्ध मद्भक्ता मम पूजासु लोलुपः । मत्कथाश्रवणे सक्तास्ते वै भागवताः स्मृताः ? ॥ इति 'येऽर्चयन्ति नरा भक्तया नारायणमनामयम् । तानर्चयन्ति विबुधा ब्रह्माद्या देवतायणाः । मयि भक्तिपरो यस्तु मद्याजी मत्परायणः । मद्धयानी स्वकुलं सर्वं नयत्यच्युतरूपताम् ॥ येऽर्चयन्ति सदा विष्णु न ते प्राकृतमानुषाः । विष्णुलोकात्समुत्पन्नास्ते देवा नात्र संशयः । नाविष्णुर्जायते विष्णुन विष्णुर्विष्णुमर्चयेत् । रूपद्वयं हरेः प्रोक्तं बिम्बमर्चक एव च । बिम्बेत्वावाहनादूर्ध सदा सन्निहितोऽर्चके । अर्चकस्तु प्रसन्नात्मा हरिरेव न संशयः । कलिः कृतयुगस्तेषां शाश्चैव सुखावहाः । येषां शरीरमनिश हरिशुश्रूषणे रतम्' ॥ इति भागवते – 'सा वागनन्तरस्य गुणान् गृणीते करौ च तत्कर्मकरौ मनश्च । स्मरेद्वसन्तं स्थिरजङ्गमेषु श्रुणोति तत्पुण्यकथास्स कर्णः । शिरश्च तस्यांघ्रिषु नम्रमाणे तमेव यः पश्यति तद्धि चक्षुः । अङ्गानि विष्णोरथ तज्जनानां पादोदकं यानि वहन्ति नित्यम्' ॥ हृदि रूपं मुखे नाम नैवेद्यमुदरे हरेः । पादोदकञ्च निर्माल्यं यस्य मूर्धेि स वैष्णवः ? ॥ इति श्रुतिरपि --तदस्य प्रियमभिपाथो अश्याम् नरो यत्र देक्यवो मदन्ति उरूकमस्य स हि बन्धुरित्था विष्णोः पदे परमे मध्व उत्सः इति । अस्यार्थः-विष्णोः प्रियं तत्पाथः निवेदितमन्नादिकम् अभ्यश्याम् । देवयवो नराः देवाराधकाः यत्र मदन्ति यस्मिन् निवेदितीर्थप्रसादादिके स्वीकृते मदन्ति ह्यष्टा भवन्ति । यद्वा--